________________ तद्ध्यानं क्रियते भव्यं, मनो येन विलीयते / तत् क्षणं पश्यति शुद्धं, चित्चमत्कारलक्षणम् // 10 // ये धर्मलीना मुनयः प्रधानाः ते दुःक्खहीना नियतं भवन्ति / संप्राप्य शीघ्रं परमात्मतत्वं, व्रजन्ति मोक्षं क्षणमेकमध्ये // 11 // आनन्दरूपं परमात्मतत्त्वं, समस्तसंकल्पविकल्पमुक्तम् / स्वभावलीना निवसन्ति नित्यं, जानाति योगी स्वयमेव तत्त्वम् 12 सदानन्दमयं शुद्धं, निराकारं निरामयम् / अनन्तसुखसंपन्नं, सर्वसङ्गविवर्जितम् लोकमात्रप्रमाणोऽहं, निश्चयेन न संशयः / व्यवहारे देहमात्रः, कथितः परमेश्वरः // 14 // यत्क्षणं पश्यति शुद्धं, तत्क्षणं गतविभ्रमम् / सुस्थं चित्तं स्थिरीभूतं, निर्विकल्पसमाधिना // 15 // स एव परमं ब्रह्म, स एव जिनपुङ्गवः / . स एव परमं चित्तं, स एव परमो गुरुः / // 16 // स एव परमं ज्योतिः स एव परमं तपः / स एव परमं ध्यानं, स एव परमात्मकम् // 17 // स एव सर्वकल्याणं, स एव सुखभाजनम् / स एव शुद्धचिद्रूपं, स एव परमः शिवः // 18 // स एव परमानन्दः, स एव सुखदायकः / स एव परचैतन्यं, स एव गुणसागरः // 19 // परमाह्लादसम्पन्नं, रागद्वेषविवर्जितम् / स अहं देहमध्येषु, यो जानाति स पण्डितः // 20 // आकाररहितं शुद्धं, स्वस्वरूपे व्यवस्थितम् / सिद्धावष्टगुणोपेतं, निर्विकारं निरामयम् // 21 // 11