________________ / / 242 // // 243 // // 244 // // 245 // // 246 // // 247 // मनोऽप्रवृत्तिमात्रेण, ध्यानं नैकेन्द्रियादिषु। धर्म्यशुक्लमनःस्थैर्यभाजस्तु ध्यायिनः स्तुमः सार्थं निरर्थकं वा यन्मनः सुध्यानयन्त्रितम्। विरतं दुर्विकल्पेभ्यः, पारगांस्तान् स्तुवे यतीन् वचोऽप्रवृत्तिमात्रेण, मौनं के के न बिभ्रति / निरवद्यं वचो येषाम्, वचोगुप्तांस्तु तान् स्तुवे निरवद्यं वचो ब्रूहि, सावधवचनैर्यतः / प्रयाता नरकं घोरं, वसुराजादयो द्रुतम् इहाऽमुत्र च वैराय, दुर्वाचो नरकाय च। अग्निदग्धाः प्ररोहन्ति, दुर्वाग्दग्धाः पुनर्न हि अत एव जिना दीक्षाकालादाकेवलोद्भवम्। अवद्यादिभिया ब्रूयुर्ज्ञानत्रयभृतोऽपि न कृपया संवृणु स्वाङ्गं, कूर्मज्ञातनिदर्शनात्। . संवृतासंवृताङ्गा यत्, सुखर्दुःखान्यवाप्नुयुः कायस्तम्भान्न के के स्युस्तरुस्तम्भादयो यताः / शिवहेतुक्रियो येषां, कायस्तांस्तु स्तुवे यतीन् श्रुतिसंयममात्रेण, शब्दान् कान् के त्यजन्ति न। इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यंजन्मुनिः चक्षुःसंयममात्रात् के, रूपालोकांस्त्यजन्त्रि न। इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यजन्मुनिः घ्राणसंयममात्रेण, गन्धान् कान् के त्यजन्ति न / इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यजन् मुनिः जिह्वासंयममात्रेण, रसान् कान् के त्यजन्ति न / मनसा त्यज तानिष्टान्, यदीच्छसि तपः फलम् // 248 // // 249 // // 250 // // 251 // // 252 // // 253 // પપ