________________ प्राप्यापि चारित्रमिदं दुरापं स्वदोषजैर्यद्विषयप्रमादैः। भवाम्बुधौ धिक् पतितोऽसि भिक्षो ! हतोऽसि दु:खैस्तदनन्तकालम् . कथमपि समवाप्य बोधिरत्नं युगसमिलादिनिदर्शनाद्दुरापम्।। कुरु कुरु रिपुवश्यतामगच्छन् किमपि हितं लभसे यतोऽथितं शम् द्विषस्त्विमे ते विषयप्रमादा, असंवृता मानसदेहवाचः। असंयमाः सप्तदशापि हास्यादयश्च बिभ्यच्चर नित्यमेभ्यः / // 234 // . गुरूनवाप्याप्यपहाय गेहमधीत्य शास्त्राण्यपि तत्त्ववाञ्चि। निर्वाहचिन्तादिभराद्यभावेऽप्यूषे! न किं प्रेत्य हिताय यत्नः? 235 विराधितैः संयमसर्वयोगैः पतिष्यतस्ते भवदुःखराशौ। शास्त्राणि शिष्योपधिपुस्तकाद्या भक्ताश्च लोकाः शरणाय नालम् 236 यस्य क्षणोपि सुरधामसुखानि पल्यकोटीनृणां द्विनवतीं ह्यधिकां ददाति। . किं हारयस्यधम ! संयमजीवितं तत्, हा हा प्रमत्त ! पुनरस्य कुतस्तवाप्तिः // 237 // नाम्नापि यस्येति जनेऽसि पूज्यः, शुद्धात्ततो नेष्टसुखानि कानि। तत्संयमेऽस्मिन् यतसे मुमुक्षोऽनुभूयमानोरुफलेऽपि किं न?॥ 238 // . // 14 // मिथ्यात्वादिनिरोधाधिकारः मिथ्यात्वयोगाविरतिप्रमादान, आत्मन् ! सदा संवृणु सौख्यमिच्छन्। असंवृता यद्भवतापमेते, सुसंवृता मुक्तिरमां च दद्युः // 239 // मनः संवृणु हे विद्वन् !, असंवृतमना यतः / याति तन्दुलमत्स्यो द्राक्, सप्तमी नरकावनीम् // 240 // प्रसन्नचन्द्रराजर्मनःप्रसरसंवरौ। नरकस्य शिवस्यापि हेतुभूतौ क्षणादपि // 241 // 54