________________ अनित्यताद्या भज भावनाः सदा यतस्व दुःसाध्यगुणेऽपि संयमे। जिघत्सया ते त्वरते ह्ययं यमः श्रयन् प्रमादान्न भवाद् बिभेषि किम् ? हतं मनस्ते कुविकल्पजालैर्वचोऽप्यवद्यैश्च वपुः प्रमादैः। लब्धीश्च सिद्धीश्च तथापि वाञ्छन्, मनोरथैरेव हहा ! ! हतोऽसि 222 // मनोवशस्ते सुखदुःखसंगमो, मनो मिलेद्यैस्तु तदात्मकं भवेत्। प्रमादचोरैरिति वार्यतां मिलच्छीलाङ्गमित्रैरनुषञ्जयानिशम् // 223 / / ध्रुवः प्रमादैर्भववारिधौ मुने! तव प्रपात: परमत्सरः पुनः। गले निबद्धोरुशिलोपमोऽस्ति चेत् कथं तदोन्मज्जनमप्यवाप्स्यसि 224 महर्षयः केऽपि सहन्त्युदीर्याप्युग्रातपादीन्यदि निर्जरार्थम् / कष्टं प्रसङ्गागतमप्यणीयोऽपीच्छन् शिवं किं सहसे न भिक्षो ! / / 225 // यो दानमानस्तुतिवन्दनाभिर्न मोदतेऽन्यैर्न तु दुर्मनायते / अलाभलाभादिपरीषहान् सहन्, यतिः स तत्त्वादपरो विडम्बकः 226 दधद्गृहस्थेषु ममत्वबुद्धिं, तदीयतप्त्या परितप्यमानः / अनिवृतान्तःकरणः सदा स्वैस्तेषां च पापैर्धमिता भवेऽसि // 227 // त्यक्त्वा गृहं स्वं परगेहचिन्तातप्तस्य को नाम गुणस्तवर्षे!। आजीविकास्ते यतिवेषतोऽत्र, सुदुर्गतिः प्रेत्य तु दुर्निवारा // 228 // कुर्वे न सावद्यमिति प्रतिज्ञां वदन्नकुर्वन्नपि देहमात्रात् / शय्यादिकृत्येषु नुदन् गृहस्थान् हृदा गिरा वाऽसि कथं मुमुक्षुः? 229 कथं महत्त्वाय ममत्वतो वा, सावद्यमिच्छस्यपि सङ्घलोके। न हेममयप्युदरे हि शस्त्री, क्षिप्तो क्षणोति क्षणतोऽप्यसून् किम् 230 रङ्कः कोऽपि जनाभिभूतिपदवीं त्यक्त्वा प्रसादाद् गुरो र्वेषं प्राप्य यतेः कथंचन कियच्छास्त्रं पदं कोऽपि च / मौखर्यादिवशीकृतर्जुजनतादानार्चनैर्गर्वभागात्मानं गणयन्नरेन्द्रमिव धिग् गन्ता द्रुतं दुर्गतौ // 231 // ॥का 53