SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ गुणांस्तवाश्रित्य नमन्त्यमी जना, ददत्युपध्यालयभैक्ष्यशिष्यकान् / विना गुणान् वेषमृषेबिभर्षि चेत्, ततष्ठकानां तव भाविनी गतिः 189 नाजीविकाप्रणयिनीतनयादिचिन्ता नो राजभीश्च भगवत्समयं च वेत्सि। शुद्ध तथापि चरणे यतसे न भिक्षो ! तत्ते परिग्रहभरो नरकार्थमेव 190 शास्त्रज्ञोऽपि धृतव्रतोऽपि गृहिणीपुत्रादिबन्धोज्ज्ञितोऽप्यङ्गी यद्यतते प्रमादवशगो, न प्रेत्यसौख्यश्रिये। तन्मोहद्विषतस्त्रिलोकजथिनः काचित्परा दुष्टता, बद्धायुष्कतया स वा नरपशुनूनं गमी दुर्गतौ // 191 // उच्चारयस्यनुदिनं न करोमि सर्वं, सावद्यमित्यसकृदेतदथो करोषि। . नित्यं मृषोक्तिजिनवञ्चनभारितात्तत्, सावद्यतो नरकमेव विभावये ते 192 वेषोपदेशाद्युपधिप्रतारिता, ददत्यभीष्टानृजवोऽधुना जनाः। भुझे च शेषे च सुखं विचेष्टसे, भवान्तरे ज्ञास्यसि तत्फलं पुनः 193 आजीविकादिविविधार्तिभृशानिशातः, कृच्छ्रेण केऽपि महतैव सृजन्ति धर्मान् / तेभ्योऽपि निर्दय ! जिघृक्षसि सर्वमिष्टं, नो संयमे च यतसे भविता कथं ही // 194 // आराधितो वा गुणवान् स्वयं तरन् भवाब्धिमस्मानपि तारयिष्यति / श्रयन्ति ये त्वामिति भूरिभक्तिभिः फलं तवैषां च किमस्ति निर्गुण ! स्वयं प्रमादैनिपतन् भवाम्बुधौ कथं स्वभक्तानपि तारयिष्यसि ? / प्रतारयन् स्वार्थमृजून् शिवार्थिनः स्वतोऽन्यतश्चैव विलुप्यसेंऽहसा१९६ . गृह्णासि शय्याहृतिपुस्तकोपधीन्, सदा परेभ्यस्तपसस्त्वियं स्थितिः / तत्ते प्रमादाद्भरितात्प्रतिग्रहैर्ऋणार्णमग्नस्य परत्र का गतिः ? // 197 // न कापि सिद्धिर्न च तेऽतिशायि, मुने ! क्रियायोगतपः श्रुतादि / तथाप्यहङ्कारकर्थितस्त्वं, ख्यातीच्छया ताम्यसि धिङ्मुधा किम् 198 50
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy