________________ क्वचित्कषायैः क्वचन प्रमादैः, कदाग्रहै: क्वापि च मत्सराद्यैः / आत्मानमात्मन् ! कलुषीकरोषि, बिभेषि धिङ्नो नरकादधर्मा।। 150 // // 11 // धर्मशुद्ध्युपदेशाधिकारः . भवेद्भवापायविनाशनाय यः, तमज्ञ. ! धर्मं कलुषीकरोषि किम् ? / . प्रमादमानोपधिमत्सरादिभिर्न मिश्रितं ह्यौषधमामयापहम् // 151 // . शैथिल्यमात्सर्यकदाग्रहकुधोऽनुतापदम्भाविधिगौरवाणि च / प्रमादमानौ कुगुरुः कुसंगतिः, श्लाघार्थिता वा सुकृते मला इमे 152 यथा तवेष्टा स्वगुणप्रशंसा, तथा परेषामिति मत्सरोज्झी। तेषामिमां संतनु यल्लभेथास्तां नेष्टदानादि विनेष्टलाभः // 153 // जनेषु गृह्णत्सु गुणान् प्रमोदसे, ततो भवित्री गुणरिक्तता तव / गृहृत्सु दोषान् परितप्यसे च चेद्, भवन्तु दोषास्त्वयि सुस्थिरास्ततः१५४ प्रमोदसे स्वस्य यथान्यनिर्मितैः, स्तवैस्तथा चेत्प्रतिपन्थिनामपि। विगर्हणैः स्वस्य यथोपतप्यसे, तथा रिपूणामपि चेत्ततोऽसि वित्१५५ स्तवैर्यथा स्वस्य विगर्हणैश्च, प्रमोदतापौ भजसे तथा चेत् / इमौ परेषामपि तैश्चतुर्ध्वप्युदासतां वासि ततोऽर्थवेदी // 156 // भवेन्न कोऽपि स्तुतिमात्रतो गुणी, ख्यात्या न बढ्यापि हितं परत्र च / तदिच्छुरीादिभिरायति ततो, मुधाभिमानग्रहिलो निहंसि किम् 157 सृजन्ति के के न बहिर्मुखा जनाः / प्रमादमात्सर्यकुबोधविप्लुताः / दानादिधर्माणि मलीमसान्यमून्युपेक्ष्य शुद्धं सुकृतं चराऽण्वपि 158 आच्छादितानि सुकृतानि यथा दधन्ते,सौभाग्यमत्र न तथा प्रकटीकृतानि व्रीडानताननसरोजसरोजनेत्रावक्षःस्थलानि कलितानि यथा दुकूलैः 159 स्तुतैः श्रुतैर्वाप्यपनिरीक्षितैर्गुणस्तवात्मन् ! सुकृतेन कश्चन / फलन्ति नैव प्रकटीकृतैर्भुवो, द्रुमा हि मूलैर्निपतन्त्यषि त्वधः॥ 160 // 46