________________ पुरापि पापैः पतितोऽसि दुःखराशौ पुनर्मूढ ! करोषि तानि / मज्जन्महापङ्किलवारिपूरे, शिला निजे मूर्ध्नि गले च धत्से // 139 // पुनः पुनर्जीव ! तवोपदिश्यते, बिभेषि दुःखात्सुखमीहसेच चेत् / कुरुष्व तत्किञ्चन येन वाञ्छितं, भवेत्तवास्तेऽवसरोऽयमेव यत् 140 धनाङ्गसौख्यस्वजनानसूनपि, त्यज त्यजैकं न च धर्ममार्हतम् / भवन्ति धर्माद्धि भवे भवेऽथितान्यमून्यमीभिः पुनरेष दुर्लभः॥१४१ // दुःखं यथा बहुविधं सहसेऽप्यकामः, कामं तथा सहसि चेत्करुणादिभावैः / अल्पीयसापि तव तेन भवान्तरे स्यादात्यन्तिकी सकलदुःखनिवृत्तिरेव // 142 // प्रगल्भसे कर्मसु पापकेष्वरे, यदाशया शर्म न तद्विनानितम् / विभावयंस्तच्च विनश्वरं द्रुतं, बिभेषि किं दुर्गतिदुःखतो नहि ? 143 कर्माणि रे जीव ! करोषि तानि यैस्ते भवित्र्यों विपदो ह्यनन्ताः / ताभ्यो भिया तद्दधसेऽधुना किं ? संभाविताभ्योऽपि भृशाकुलत्वम् ये पालिता वृद्धिमिताः सहैव, स्निग्धा भृशं नेहपदं च ये ते / यमेन तानप्यदयं गृहीतान्, ज्ञात्वापि किं न त्वरसे हिताय ? // 145 // यैः क्लिश्यसे त्वं धनबन्ध्वपत्ययशःप्रभुत्वादिभिराशयस्थैः / कियानिह प्रेत्य च तैर्गुणस्ते, साध्यः किमायुश्च विचारयैवम्॥ 146 // किमु मुह्यसि गत्वरैः पृथक्, कृपणैर्बन्धुवपुःपरिग्रहैः। विमृशस्व हितोपयोगिनोऽवसरेऽस्मिन् परलोकपान्थ ! रे // 147 // सुखमास्से सुखं शेषे, भुझे पिबसि खेलसि / न जाने त्वग्रतः पुण्यैविना ते किं भविष्यति ? .. // 148 // शीतात्तापान्मक्षिकाकत्तृणादिस्पर्शाद्युत्थात्कष्टतोऽल्पाद् बिभेषि / तास्ताश्चैभिः कर्मभिः स्वीकरोषि श्वभ्रादीनां वेदना धिग् धियं ते 149