________________ चिन्ताव्याकुलताकृतेश्च हरते यो धर्मकर्मस्मृति, विज्ञा ! भूरिपरिग्रहं त्यजत तं भोग्यं परैः प्रायशः // 52 // क्षेत्रेषु नो वपसि यत्सदपि स्वमेतद्यातासि तत्परभवे किमिदं गृहीत्वा / तस्यार्जनादिजनिताघचयार्जितात्ते भावी कथं नरकदुःखभराच्च मोक्ष:५३ // 5 // देहममत्वमोचनाधिकारः। . . पुष्णासि यं देहमघान्यचिन्तयंस्तवोपकारं कमयं विधास्यति / कर्माणि कुर्वनिति चिन्तयायति, जगत्ययं वञ्चयते हि धूर्तराट् 54 कारागृहाबहुविधाशुचितादिदुःखा-निर्गन्तुमिच्छति जडोपि ही तद्विभिद्य क्षिप्तस्ततोऽधिकारे वपुषि स्वकर्मवातेन तद्दढयितुं यतसे किमात्मन् चेद्वाञ्छसीदमवितुं परलोकदुःखभीत्या ततो न कुरुषे किमु पुण्यमेव / ' शक्यं न रक्षितुमिदं हि च दुःखभीतिः पुण्यं विना क्षयमुपैति न वज्रिणोपि // 56 // देहे विमुह्य कुरुषे किमघं न वेत्सि, देहस्थ एव भजसे भवदुःखजालम् लोहाश्रितो हि सहते घनघातमग्निर्बाधा न तेऽस्य च नभोवदनाश्रयत्वे दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृत्, बद्धवा कर्मगुणैर्हषिकचषकैः पीतप्रमादासवम् / कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं, गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् // 58 // यतः शुचीन्यप्यशुचीभवन्ति कृम्याकुलात्काकशुनादिभक्ष्यात् / द्राग्भाविनो भस्मतया ततोऽङ्गात्, मांसादिपिण्डात् स्वहितं गृहाण५९ परोपकारोस्ति तपो जपो वा, विनश्वराद्यस्य फलं न देहात् / सभाटकादल्पदिनाप्तगेहमृत्पिण्डमूढः फलमश्नुते किम् // 60 // 39