________________ गृहीतलिङ्गस्य च चेद्धनाशा, गृहीतलिङ्गो विषयाभिलाषी। गृहीतलिङ्गो रसलोलुपश्चेद्, विडम्बनं नास्ति ततोऽधिकं हि // 19 / / ये लुब्धचिता विषयार्थभोगे, बहिर्विरागा हृदि बद्धरागाः / ते दाम्भिका वेषधराश्च धूर्ताः, मनांसि लोकस्य तु रञ्जयन्ति॥ 20 // मुग्धश्च लोकोऽपि हि यत्र मार्गे, निवेशितस्तत्र रतिं करोति / धूर्तस्य वाक्यैः परिमोहितानां, केषां न चित्तं भ्रमतीहलोके // 21 // ये निःस्पृहास्त्यक्तसमस्तरागास्तत्त्वैकनिष्ठा गलिताभिमानाः / सन्तोषपोषैकविलीनवाञ्छास्ते रञ्जयन्ति स्वमनो न लोकम् // 22 // तावद्विवादी जनरञ्जकश्च, यावन्न चैवात्मरसे सुखज्ञः / चिन्तामणि प्राप्य वरं हि लोके, जने जने कः कथयन् प्रयाति ? 23 षण्णां विरोधोऽपि च दर्शनानाम्, तथैव तेषां शतशश्च भेदाः / नानापथे सर्वजनः प्रवृत्तः, को लोकमाराधयितुं समर्थः ? // 24 // तदेव राज्यं हि धनं तदेव, तपस्तदेवेह कला च सैव। स्वस्थे भवेच्छीतलताऽऽशये चेन्नो चेद्वथा सर्वमिदं हि मन्ये॥ 25 // रुष्टैर्जनैः किं यदि चित्तशान्ति-स्तुष्टैर्जनैः किं यदि चित्ततापः / प्रीणाति नो नैव दुनोति चान्यान् स्वस्थः सदोदासपरो हि योगी // 26 / / एकः पापात् पतति नरके, याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमात्, मोक्षमेकः प्रयाति / सङ्गानूनं न भवति सुखं, न द्वितीयेन कार्यम्, तस्मादेको विचरति सदानन्दसौख्येन पूर्णः // 27 // त्रैलोक्यमेतद् बहुभिर्जितं यैर्मनोजये तेऽपि यतो न शक्ताः / मनोजयस्यात्र पुरो हि तस्मात्, तृणं त्रिलोकीविजयं वदन्ति // 28 // मनोलयानास्ति परो हि योगो, ज्ञानं तु तत्त्वार्थविचारणाच्च / समाधिसौख्यान्न परं च सौख्यम्, संसारसारं त्रयमेतदेव // 29 / / 20