SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ धनं न केषां निधनं गतं वै, दरिद्रिणः के धनिनो न दृष्टाः / दुःखैकहेतुनि धनेऽतितृष्णां, त्यक्त्वा सुखी स्यादिति मे विचारः // 7 // संसारदुःखान्न परोऽस्ति रोगः, सम्यग्विचारात् परमौषधं न / तद्रोगदुःखस्य विनाशनाय, सच्छास्त्रतोऽयं क्रियते विचारः // 8 // अनित्यताया यदि चेत् प्रतीतिस्तत्त्वस्य निष्ठा च गुरुप्रसादात्। सुखी हि सर्वत्र जने वने च, नो चेद्वने चाथ जनेषु दुःखी // 9 // मोहान्धकारे भ्रमतीह तावत्, संसारदुःखैश्च कदर्यमानः / / यावद्विवेकार्कमहोदयेन, यथास्थितं पश्यति नात्मरूपम् . // 10 // अर्थो ह्यनर्थो बहुधा मतोऽयं, स्त्रीणां चरित्राणि शबोपमानि / विषेण तुल्या विषयाश्च तेषां, येषां हृदि स्वात्मलयानुभूतिः // 11 // कार्यं च किं ते परदोषदृष्ट्या, कार्यं च किं ते परचिन्तया च। वृथा कथं खिद्यसि बालबुद्धे !, कुरु स्वकार्यं त्यज सर्वमन्यत् // 12 // यस्मिन् कृते कर्मणि सौख्यलेशो, दुःखानुबन्धस्य तथास्ति नान्तः / मनोऽभितापो मरणं हि यावत्, मूर्योऽपि कुर्यात् खलु तन्न कम।।१३।। यदर्जितं वै वयसाऽखिलेन, ध्यानं तपो ज्ञानमुखं च सत्यम् / क्षणेन सर्वं प्रदहत्यहो तत्, कामो बली प्राप्य बलं (छलं?) यतीनाम् बलादसौ मोहरिपुर्जनानां, ज्ञानं विवेकं च निराकरोति / . मोहाभिभूतं हि जगद्विनष्टं, तत्त्वावबोधादपयाति मोहः // 15 // सर्वत्र सर्वस्य सदा प्रवृत्तिर्दुःखस्य नाशाय सुखस्य हेतोः / तथापि दुःखं न विनाशमेति, सुखं न कस्यापि भजेत् स्थिरत्वम्॥१६॥ यत् कृत्रिमं वैषयिकादिसौख्यम्, भ्रमन् भवे को न लभेत-मर्त्यः / सर्वेषु तच्चाधममध्यमेषु, यद् दृश्यते तत्र किमद्भुतं च // 17 // क्षुधातृषाकामविकाररोष-हेतुश्च तद् भेषजवद्वदन्ति। . तदस्वतन्त्रं क्षणिक प्रयासकृत्, यतीश्वरा दूरतरं त्यजन्ति // 18 // 28
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy