________________ // 311 // सद्भिर्गुणदोषज्ञै-र्दोषानुत्सृज्य गुणलवा ग्राह्याः / सर्वात्मना च सततं, प्रशमसुखायैव यतितव्यम् यच्चासमञ्जसमिह, छन्दःशब्दसमयार्थतोऽभिहितम् / पुत्रापराधवन्मम, मर्षयितव्यं बुधैः सर्वम् सर्वसुखमूलबीजं सर्वार्थविनिश्चयप्रकाशकरम् / सर्वगुणसिद्धिसाधन-मर्हच्छासनं जयति // 312 // // 313 // अज्ञातकृता ॥हृदयप्रदीप षट्त्रिंशिका // शब्दादिपञ्चविषयेषु विचेतनेषु, योऽन्तर्गतो हृदि विवेककलां व्यनक्ति / यस्माद् भवान्तरगतान्यपि चेष्टितानि, प्रादुर्भवन्त्यनुभवं तमिमं भजेथाः . // 1 // जानन्ति केचिन्नतु कर्तुमीशा: कर्तुं क्षमा ये न च ते विदन्ति / जानन्ति तत्त्वं प्रभवन्ति कर्तुं, ते केऽपि लोके विरला भवन्ति // 2 // सम्यग् विरक्तिर्ननु यस्य चित्ते, सम्यग् गुरुर्यस्य च तत्त्ववेत्ता / सदानुभूत्या दृढनिश्चयो यः, तस्यैव सिद्धिर्न हि चापरस्य // 3 // विग्रहं कृमिनिकायसङ्कुलं, दुःखदं हृदि विवेचयन्ति ये। गुप्तिबन्धमिव चेतनं हि ते, मोचयन्ति तनुयन्त्रयन्त्रितम् // 4 // भोगार्थमेतद् भविनां शरीरम्, ज्ञानार्थमेतत् किल योगिनां वै।। जाता विषं चेद्विषया हि सम्यग्, ज्ञानात्ततः किं कुणपस्य पुष्ट्या ? 5 त्वङ्मांसमेदोऽस्थिपुरीषमूत्रपूर्णेऽनुरागः कुणपे कथं ते ? / दृष्टा च वक्ता च विवेकरूंपस्त्वमेव साक्षात् किमु मुह्यसीत्थम् // 6 // 20