________________ तत्र सुरलोकसौख्यं, चिरमनुभूय स्थितिक्षयात्तस्मात् / पुनरपि मनुष्यलोके, गुणवत्सु मनुष्यसङ्ग्रेषु // 299 // जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः / श्रद्धासम्यक्त्वज्ञान-संवरतपोबलसमग्रः // 300 // पूर्वोक्तभावनाभा-वितान्तरात्मा विधूतसंसारः / .. सेत्स्यति ततः परं वा, स्वर्गान्तरितस्त्रिभवभावात् // 301 // यश्चेह जिनवरमते, गृहाश्रमी निश्चित: सुविदितार्थः / दर्शनशीलव्रतभा-वनाभिरभिरञ्जितमनस्क: // 302 // स्थूलवधानृतचौर्य-परस्त्रीरत्यरतिवर्जित: सततम् / ... दिग्व्रतमिह देशाव-काशिकमनर्थविरतिं च // 303 // सामायिकं च कृत्वा, पौषधमुपभोगपारिमाण्यं च / न्यायागतं च कल्प्यं, विधिवत्पात्रेषु विनियोज्यम् // 304 // चैत्यायतनप्रस्था-पनानि कृत्वा च शक्तितः प्रयतः / पूजाश्च गन्धमाल्या-धिवासधूंपप्रदीपाद्याः // 305 // प्रशमरतिनित्यतृषितो, जिनगुरुसाधुजनवन्दनाभिरतः / . संलेखनां च काले, योगेनाराध्य सुविशुद्धाम् // 306 // प्राप्तः कल्पेष्विन्द्र-त्वं सामानिकत्वमन्यद्वा / स्थानमुदारं तत्रा-नुभूय च सुखं तदनुरूपम् // 307 // नरलोकमेत्य सर्वगुण-सम्पदं दुर्लभां पुनर्लब्ध्वा / शुद्धः स सिद्धिमेष्यति, भवाष्टकाभ्यन्तरे नियमात् // 308 // इत्येवं प्रशमरतेः, फलमिह स्वर्गापवर्गयोश्च शुभम् / . सम्प्राप्यतेऽनगारै-रगारिभिश्चोत्तरगुणाढ्यैः // 309 // जिनशासनार्णवादा-कृष्टां धर्मकथिकामिमां श्रुत्वा / . रत्नाकरादिव जर-त्कपर्दिकामुद्धतां भक्त्या // 310 // 26