________________ // 287 // // 288 // // 289 // // 290 // // 291 // // 292 // देहत्रयनिर्मुक्तः, प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् / समयेनैकेनावि-ग्रहेण गत्वोर्ध्वगतिमप्रतिघः सिद्धक्षेत्रे विमले, जन्मजरामरणरोगनिर्मुक्तः / लोकाग्रगतः सिध्यति, साकारेणोपयोगेन सादिकमनन्तमनुपम-मव्याबाधसुखमुत्तमं प्राप्तः / केवलसम्यक्त्वज्ञान-दर्शनात्मा भवति मुक्तः मुक्तः सन्नाभावः, स्वालक्षण्यात्स्वतोऽर्थसिद्धेश्च / भावान्तरसंक्रान्तेः, सर्वज्ञाज्ञोपदेशाच्च त्यक्त्वा शरीरबन्धन-मिहैव कर्माष्टकक्षयं कृत्वा / न स तिष्ठत्यनिबन्धा-दनाश्रयादप्रयोगाच्च नाधो गौरवविगमा-दशक्यभावाच्च गच्छति.विमुक्तः / लोकान्तादपि न परं, प्लवक इवोपग्रहाभावात् योगप्रयोगयोश्चा-भावात्तिर्यग् न तस्य गतिरस्ति / सिद्धस्योर्ध्वं मुक्तस्यालीकान्ताद् गतिर्भवति पूर्वप्रयोगसिद्धे-र्बन्धच्छेदादसंङ्गभावाच्च / गतिपरीणामाच्च तथा, सिद्धस्योर्ध्वं गतिः सिद्धा देहमनोवृत्तिभ्यां, भवतः शारीरमानसे दुःखे / तदभावस्तदभावे, सिद्धं सिद्धस्य सिद्धिसुखम् . यस्तु यतिर्घटमानः, सम्यक्त्वज्ञानशीलसम्पन्नः / वीर्यमनिगूहमानः, शक्त्यनुरूपं प्रयत्नेन संहननायुर्बलकाल-वीर्यसम्पत्समाधिवैकल्यात् / कर्मातिगौरवाद्वा, स्वार्थमकृत्वोपरममेति सौधर्मादिष्वन्यत-मकेषु सर्वार्थसिद्धिचरमेषु / स भवति देवो वैमा-निको महर्द्धिद्युतिवपुष्कः // 293 // // 294 // // 295 // // 296 // // 297 // || 298 // 25