________________ उत्पादविगमनित्य-त्वलक्षणं यत्तदस्ति सर्वमपि / सदसद्वा भवतीत्यन्यथार्पितानर्पितविशेषात् // 204 / / योऽर्थो यस्मिन्नाभूत्, साम्प्रतकाले च दृश्यते तत्र / / तेनोत्पादस्तस्य, विगमस्तु तस्माद्विपर्यासः // 205 // साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी / तेनाविगमस्तस्येति स नित्यस्तेन भावेन // 206 // . धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः / पुद्गलवर्जमरूपं, तु रूपिणः पुद्गलाः प्रोक्ताः // 207 // व्यादिप्रदेशवन्तो, यावदनन्तप्रदेशकाः स्कन्धाः। . .. परमाणुरप्रदेशो, वर्णादिगुणेषु भजनीयः // 208 // भावे धर्माधर्मा-म्बरकालाः पारिणामिके ज्ञेयाः / / उदयपरिणामि रूपं, तु सर्वभावानुगा जीवाः // 209 // जीवाजीवा द्रव्य-मिति षड्विधं भवति लोकपुरुषोऽयम् / वैशाखस्थानस्थः, पुरुष इव कटिस्थकरयुग्मः ... // 210 // तत्राधोमुखमल्लक-संस्थानं वर्णयन्त्यधोलोकम् / स्थालमिव च तिर्यग्-लोकमूर्ध्वमथ मल्लकसमुद्गम् // 211 // सप्तविधोऽधोलोक-स्तिर्यग्लोको भवत्यनेकविधः / पञ्चदशविधानः पुन-रूव॑लोकः समासेन // 212 // लोकालोकव्यापक-माकाशं मर्त्यलौकिकः कालः / लोकव्यापि चतुष्टय-मवशेषं त्वेकजीवो वा // 213 // धर्माधर्माकाशा-न्येकैकमतः परं त्रिकमनन्तम् / . कालं विनास्तिकाया, जीवमृते चाप्यकर्तृणि धर्मो गतिस्थितिमतां, द्रव्याणां गत्युपग्रहविधातां / / स्थित्युपकृच्चाऽधर्मो-ऽवकाशदानोपकृद् गगनम् - // 215 // // 214 // 18