________________ // 192 // // 193 // // 194 // // 195 // ते || 196 // // 197 // पञ्चविधास्त्वेकद्वि-त्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः / क्षित्यम्बुवह्निपवन-तरवस्त्रसाश्चेति षड्भेदाः एवमनेकविधाना-मेकैको विधिरनन्तपर्यायः / प्रोक्तः स्थित्यवगाह-ज्ञानदर्शनादिपर्यायैः सामान्यं खलु लक्षण-मुपयोगो भवति सर्वजीवानाम् / साकारोऽनाकारश्च, सोऽष्टभेदश्चतुर्धा च ज्ञानाज्ञाने पञ्च-त्रिविकल्पे सोऽष्टधा तु साकारः / चक्षुरचक्षुरवधिकेवलग्विषयस्त्वनाकारः भावा भवन्ति जीवस्यौदयिक: पारिणामिकश्चैव / औपशमिकः क्षयोत्थः, क्षयोपशमजश्च पञ्चैते ते चैकविंशतित्रि-द्विनवाष्टादशविधाश्च विज्ञेयाः / षष्ठश्च सान्निपातिक, इत्यन्यः पञ्चदशभेदः एभिर्भावैः स्थानं, गतिमिन्द्रियसम्पदः सुखं दुःखम् / सम्प्राप्नोतीत्यात्मा, सोऽष्टविकल्पः समासेन द्रव्यं कषाययोगा-वुपयोगों ज्ञानदर्शने चेति / चारित्रं वीर्यं चे-त्यष्टविधा मार्गणा तस्य जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा / योगः सयोगिनां पुन-रुपयोगः सर्वजीवानाम् ज्ञानं सम्यग्दृष्टे-दर्शनमथ भवति सर्वजीवानाम् / चारित्रं विरतानां, तु सर्वसंसारिणां वीर्यम् द्रव्यात्मेत्युपचारः, सर्वद्रव्येषु नयविशेषेण / आत्मादेशादात्मा, भवत्यनात्मा परादेशात् एवं संयोगाल्पब-हुत्वाद्यैर्नेकशः स परिमृग्यः / जीवस्यैतत्सर्वं, स्वतत्त्वमिह लक्षणैर्दृष्टम् // 198 // // 199 // // 200 // // 201 // // 202 // // 203 // 17