________________ // 3 / 244 // // 3 / 245 / / // 3 / 246 // // 3 // 247 // // 3 / 248 // // 3 // 249 // व्यज्ञप्यत तया सोऽथ नाथ ! मोहो महाबलः / धूर्वहः स्पन्दनस्येव राज्यस्य धुरमर्हति जातोऽयं माययाक्षिप्तः क्रोडे तव ममापि च / दत्तेऽस्य राज्ये स्वामिन्याः किञ्चिदानृण्यमाप्नुवः सुबुद्धिः साम्प्रतं दूरे जातोऽकिञ्चित्करो नृपः / निवृत्तिः ससुता नष्टा क्वेदृशोऽवसरः पुनः यदाकालवशाद्गन्ता प्राकट्यं कोऽपि कण्टकः / . शोचिष्यावस्तदा ह्यावां स्वस्यानवसरज्ञताम् अयं स्वयं गुणैस्तैस्तै क्ष्यते विभुतां भुवि / अस्यौद्धत्यं तवादाक्ष्यं वदिष्यति जनः पुनः तन्नाथ मा विलम्बिष्ठा देहि मोहस्य वैभवम् / . भृशमुत्कर्षदो भावी प्राप्तराज्योऽयमावयोः तत्प्रेरितेन मोहस्य तेन राज्यमदीयत। . यत्तत्प्रलापनिःस्वानध्वनिध्वनितदिग्गणम् . आप्तराज्यस्य मोहस्य प्रतापेन प्रसर्पिणा / चण्डवातेन वल्लीव चकम्पे भुवनत्रयी / हुङ्कारमात्रसाध्येषु जगत्त्रयभटेष्वपि / . प्रहर्तुमायुधं गृह्णनभजत्तद्भुजस्त्रपाम् नामत्र्येषु न मत्र्येषु न तिर्यक्ष्वपि कोऽपि सः / पतन्तमिव वज्रं यस्तस्यादेशं व्यलङ्घत स तन्मातुर्मान्यः स पितुरधिकारीव परमः, स एवास्मै कृत्वा वपुरुपचयं राज्यमदित / ततोऽत्यन्तं ताताभ्यधिकबहुमानातिशयतः, स्वतो दूरीचक्रे क्षणमपि न मोहेन सचिवः 177 // 3 / 250 // // 3 // 251 // // 3 / 252 // // 3 / 253 // // 3 // 254 //