________________ संपर्कोद्यमसुलभं, चरणकरणसाधकं श्रुतज्ञानम् / लब्ध्वा सर्वं मदहरं, तेनैव मदः कथं कार्यः // 96 // एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि / केवलमुन्मादः स्वहृदयस्य संसारवृद्धिश्च // 97 // . जात्यादिमदोन्मत्तः, पिशाचवद् भवति दुःखितश्चेह / जात्यादिहीनतां पर-भवे च निःसंशयं लभते // 98 // सर्वमदस्थानानां, मूलोद्घातार्थिना सदा यतिना / आत्मगुणैरुत्कर्षः परपरिवादश्च संत्याज्यः // 99 // परपरिभवपरिवादा-दात्मोत्कर्षाच्च बध्यते कर्म / नीचैर्गोत्रं प्रतिभव-मनेकभवकोटिदुर्मोचम् // 100 // कर्मोदयनिर्वृत्तं, हीनोत्तममध्यमं मनुष्याणाम् / . तद्विधमेव तिरश्चां, योनिविशेषान्तरविभक्तम् // 101 // देशकुलदेहविज्ञा-नायुर्बलभोगभूतिवैषम्यम् / दृष्ट्वा कथमिह विदुषां, भवसंसारे रतिर्भवति // 102 // अपरिगणितगुणदोषः, स्वपरोभयंबाधको भवति यस्मात् / पञ्चेन्द्रियबलविबलो, रागद्वेषोदयनिबद्धः // 103 // तस्माद्रागद्वेषत्यागे, पञ्चेन्द्रियप्रशमने च / शुभपरिणामावस्थिति-हेतोर्यत्नेन घटितव्यम् // 104 // तत्कथमनिष्टविषया-भिकाङ्क्षिणा भोगिना वियोगो वै / सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः // 105 // आदावत्यभ्युदया, मध्ये शृङ्गारहास्यदीप्तरसाः / / निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः // 106 // . यद्यपि निषेव्यमाणा, मनस:परितुष्टिकारका विषयाः / किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः // 107 //