________________ यस्याशुद्धं शीलं, प्रयोजनं तस्य किं कुलमदेन / ' स्वगुणाभ्यलङ्कृतस्य हि, किं शीलवतः कुलमदेन // 84 // कः शुक्रशोणितसमुद्-भवस्य सततं चयापचयिकस्य / / रोगजरापाश्रयिणो, मदावकाशोऽस्ति रूपस्य // 85 // नित्यं परिशीलनीये, त्वङ्मांसाच्छादित कलुषपूर्णे / निश्चयविनाशर्मिणि, रूपे मदकारणं किं स्यात् // 86 // .. बलसमुदितोऽपि यस्मान्नरः क्षणेन विबलत्वमुपयाति / बलहीनोऽपि च बलवान्, संस्कारवशात्पुनर्भवति // 87 // तस्मादनियतभावं, बलस्य सम्यग्विभाव्य बुद्धिबलात् / मृत्युबले चाबलतां, न मदं कुर्याद् बलेनापि // 88 // उदयोपशमनिमित्तौ, लाभालाभावनित्यकौ मत्वा / नालाभे वैक्लव्यं, न च लाभे विस्मय: कार्यः // 89 // परशक्त्यभिप्रासादा-त्मकेन किंचिदुपभोगयोग्येन / विपुलेनापि यतिवृषा, लाभेन मदं. न गच्छन्ति // 90 // ग्रहणोद्ग्राहणनवकृति-विचारणार्थावधारणाद्येषु / बुद्ध्यङ्गविधिकल्पे-ष्वनन्तपर्यायवृद्धेषु // 91 // पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यम् / / श्रुत्वा सांप्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति // 92 // द्रमकैरिव चाटुकर्मक-मुपकारनिमित्तकं परजनस्य / कृत्वा यद्वाल्लभ्यक-मवाप्यते को मदस्तेन // 93 // गर्वं परप्रसादा-त्मकेन वाल्लभ्यकेन यः कुर्यात् / . तं वाल्लभ्यकविगमे, शोकसमुदयः परामृशति // 94 // माषतुषोपाख्यानं, श्रुतपर्यायप्ररूपणां चैव / .. . श्रुत्वातिविस्मयकरं, च विकरणं स्थूलभद्रमुनेः / // 95 //