________________ . // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // कषायान् शत्रुवत् पश्येद् विषयान् विषवत्तथा / . मोहं च परमं व्याधिमेवमूचुर्विचक्षणाः . कषाय-विषयैश्चौरैर्धर्मरत्नं विलुप्यते / वैराग्यखड्गधाराभिः शूराः कुर्वन्ति रक्षणम् कषायकर्षणं कृत्वा विषयाणामसेवनम् / एतद्धि मानवाः ! पथ्यं सम्यग्दर्शनमुत्तमम् कषायातपतप्तानां विषयामयमोहिनाम् / . . संयोगाऽयोगखिन्नानां सम्यक्त्वं परमं हितम् वरं नरकवासोऽपि सम्यक्त्वेन समायुतः / न तु सम्यक्त्वहीनस्य निवासो दिवि राजते सम्यक्त्वेन हि युक्तस्य ध्रुवं निर्वाणसङ्गमः / मिथ्यादृशोऽस्य जीवस्य संसारे भ्रमणं सदा सम्यक्त्वं परमं रत्नं शङ्कादिमलवजितम् / संसारदुःखदारिद्यं नाशयेत् सुविनिश्चितम् पण्डितोऽसौ विनीतोऽसौ धर्मज्ञः प्रियदर्शनः / यः सदाचारसम्पन्नः सम्यक्त्वदृढमानसः जरा-मरणरोगाणां सम्यक्त्व-ज्ञानभेषजैः / शमनं कुरुते यस्तु स वै वैद्योऽभिधीयते जन्मान्तरार्जितं कर्म सम्यक्त्व-ज्ञान-संयमैः / निराकर्तुं सदा युक्तमपूर्वस्य निरोधनम् सम्यक्त्वं भावयेत् क्षिप्रं सज्ञानं चरणं तथा / कृच्छ्रात् सुचरितं प्राप्तं नृत्वं याति निरर्थकम् . अतीतेनापि कालेन यन्न प्राप्तं कदाचन / तदिदानीं त्वया प्राप्तं सम्यग्दर्शनमुत्तमम् 114 // 42 // . // 43 // // 44 // // 45 // // 46 // // 47 //