________________ तासामालोक्य रूपं मृग इव तृषितः सस्पृहं धावसि त्वं तृष्णासन्तापवृद्ध्यै तव तु तदधिकं कारणं मूढ ! किञ्चित् // 42 // तैस्तैः कस्तूरिकाद्यैः स्तबकितमपि यद्याति दौर्गन्ध्यमारानिष्टा यस्येह विष्टा कृमिकुलमथवा भूरिभस्माथवापि / कृत्वा धर्मस्य बाधामनुदिवसमरे वञ्चनाभिः परेषामात्मन् ! कोऽयं विमोहस्तव तदपि वपुः पाल्यते यत्त्वयेत्थम् // 43 // . यैः सार्धं विप्रयोगः क्षणमपि मरणस्यैव कोऽपि प्रकार: कृत्याकृत्यं न किञ्चिद्विगणयति कृते हम्त येषां विमूढः / प्रेमाः अप्यमी रे गतवति भवति प्रेक्षतां प्रेतभर्तुः क्षिप्त्वा त्वत्कायमेनं हुतभुजि सुजनाः किं स्मरिष्यन्त्यपि त्वाम् ? 44 मायाभ्यासे गुरुस्ते समभवदिह रे कोऽत्र संसारचक्रे भ्रान्त्वा भ्रान्त्वा किमस्मिन्नियमितरपरित्यागतः शिक्षिका / यत्प्राणेभ्योऽप्यभीष्टान्नियतिकवलितान् वीक्ष्य गाढं रुदित्वा चेतः ! प्रोन्मुक्तकण्ठं पुनरपि कुरुषे स्वानि लीलायितानि // 45 // त्वत्तः कोऽपि न मूढधीरिह जने जानामि चेतः ! सखे ! येनास्याक्षकुटुम्बकस्य सहसा विश्वासमागच्छसि / एतस्मिन् प्रतिबिम्बिते हि विषयग्रामो यथा दर्पणे . भानुस्तापयते परं ननु तथा त्वां मूर्ख ! दुःखातिथे ! // 6 // श्रुत्वा श्रुत्वा गुरुभ्यः स्वयमपि च तथा वीक्ष्य वीक्ष्यातिभीमं संसारं दुःखसारं किमपि भयवशः सर्वथा प्रार्थयामि / चेतः ! कृत्वा प्रसादं परिहर सकलानेव मिथ्याविकल्पान् . भ्रातर्भूत्यस्तवाहं विरम विरम रे भङ्गुराद्भोगसङ्गात् // 47 // चेतस्त्वं सहचारि मे त्वदनुगः सौख्यानि दुःखानि वा / सर्वत्रापि सहाम्यहं तदपि रे दाक्षिण्यतो भण्यसे / / 102