________________ दृष्टा हन्त नरामरादिगतयस्तत्सर्वथा साम्प्रतं तत्किञ्चित्कुरु मुक्तिसङ्गममपि प्राप्नोति यस्मादयम् // 36 // किं धात्रा सह सख्यमस्ति भवतः किं वा किमप्यौषधं ? सिद्धं मृत्युजराविनाश्यधिगतं भ्रातः ! कुतश्चित्त्वया ? / आत्मन् ! मोक्षसुखे पराङ्मुख ! सखे ! स त्वं हृषीकैर्जितो येन स्थैर्यनिषण्णबुद्धिरधिकं निश्चिन्तवच्चेष्टसे // 37 / / किं मोहः किमयं भ्रमः किमथवोन्मादः प्रमादोऽथवा जाड्यं किन्नु विपर्ययः किमथवा किं वाज्ञतेयं तव / स्निग्धं बन्धुमिवान्तिकस्थमसकृन्मृत्युं न येनेक्षसे नित्यं मूढधियां गुरो ! स्वपिषि रे स्वास्थ्येन रात्रिंदिवम् // 38 // अद्येदं श्व इदं तथा परुदिदं कृत्यं परारि त्विदं . चेतश्चिन्तयसीत्थमेव सततं निर्व्याकुलं रे स्फुटम् / तत्कालं विलसन्मनोरथलताकान्तारदावानलो . यस्मिन् दण्डधरः स्मरिष्यति सखे ! कोऽप्यस्ति सोऽपि क्षणः 39 // सत्यं हारीणि हंहो हृदय ! मृगदृशां विभ्रमादभ्रभूरिभ्रूभङ्गोज्जृम्भमाणस्मरललितजुषामत्र लीलायितानि / .. आमुक्तेर्मुक्तबाहुस्तदपि गतघृणः प्राणिनां जीवितानि क्रीडनप्येष कालः कवलयति बलात्किन्तु दूराद्विकृष्य // 40 // या एवं स्फारतारद्युतिभरविशदोदारहाराभिरामप्रोद्दामाभोगतुङ्गस्तनकलशजुषो मोहयन्ति स्म चेतः / तो एवैतर्हि मात्रं सकलमपि जराजर्जरं धारयन्त्यो विद्वेषायेति मत्वा कथमिव कुरुषे तात्त्विकी तासु बुद्धिम् // 41 / / हहो लज्जाविहीन ! प्रतिदिवसमिदं शिक्षयामो भवन्तं मा गाः स्त्रीणां समीपं हतकहृदय ! रे ता हि मायासरस्यः / 101