________________ चेतस्त्वं तु हताश ! यन्न भविता यन्नास्ति .यन्नाभवद्वाञ्छां तन्दुलमत्स्यवद्वितनुषे तत्रापि कस्ते भ्रमः 30 // उत्तानाम्बुजपत्रबिन्दुतरला संसारभङ्गीमिमां रे पश्यन्नपि नैव पश्यति भवानान्ध्यं तवालौकिकम् / कल्याणाय किल स्पृहा यदि गिरिप्राप्तप्रतिष्ठस्तदा मुश्चात्मन् ! भवचेष्टितान्यपि गिरिप्राप्तप्रतिष्ठो भव // 31 // भ्रान्त्वास्मिन् बहुयोनिलक्षगहने संसारवारांनिधौ मानुष्यं भवता सुरत्नमिव रे दुष्प्रापमासादितम् / तन्निकृत्रिमधर्मकर्मकनकेनायोज्यते यद्यहो / त्रैलोक्येऽपि करोति कः किल तदा तस्येह मूल्यं जनः // 32 // वातोद्भूतपलालचञ्चल ! सखे ! चेतश्चिरेण त्वया भ्रान्तं कुत्र न कुत्र लम्पट ! सुखप्रत्याशया सर्वतः / वाञ्छा वर्द्धत एव केवलमरे तत्सर्वथा शिक्षये दाक्षिण्येन ममापि निर्वृतिकरं सन्तोषसौख्यं भज. // 33 // सोऽयं मोहमहाग्रहस्य महिमा मार्गादतीतो गिरामाश्चर्यं जननान्तरेष्वपि हठादापाद्य चान्ध्यं धियः / दुःखं सौख्यमिति प्रियं रिपुमिति ग्राह्यांश्च हेयानिति श्रेयो विघ्नमिति प्रवर्त्तयति यो जीवं स्वकीयेच्छया // 34 // एते दुःखमया इमे विषमया एते हि मायामया एतेभ्योऽपि किमस्ति निन्दितमथैतेभ्यो विरूपं किमु / इत्थं रे विषयेषु लोलुपतया तैस्तैः प्रकारैः सखे ! चेतः ! किं विनिवार्यमाणमपि धिग् बद्धस्पृहं धावसि // 35 // त्वद्वश्योऽयमचेतनः सुखमयो दुःखं समासादयेज्जीवः संसृतिवर्मनीह गहने विज्ञाप्यसे त्वं ततः / 100