SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ // 48 // // 49 // लब्धं मानुषजन्म दुर्लभमिह प्राप्तं च जैनं मतं हा हा हारयसे कथं हतमते ! निर्लज्ज ! निर्लक्षण ! संहृत्येन्द्रियवर्गमर्गलमिमं रुद्ध्वा च बाह्यान्तरं व्यापार गिरिकन्दरेषु यदि रे ज्योतिः परं ध्यायसि / चेतः कोऽपि तदा तवाशु स भवत्यानन्दसौख्योदयः संसारे भ्रमता न यः क्वचिदपि स्वप्नेऽपि संवादितः संसारोऽयमसारवस्तुविसरः को वेत्ति कच्चित्पुनर्मानुष्यं भविता कदापि सुगुरुर्लभ्योऽपि वा कहिचित् / दुर्वारप्रसराः कृतान्तसुभटा मर्त्तव्यमेव ध्रुवं तत् त्वं स्वान्त ! नितान्तकान्तमपरं प्रेक्षस्व तत्त्वान्तरम् श्रीचक्रेश्वरसूरिमानससरोहंसः समुत्साहितः . सत्यं सज्जनदुःखकैरवरवेः श्राद्धस्य वाचा रवः / आचार्यो विमलाभिधः समकृत श्रीब्रह्मचन्द्रापरख्याताभिख्य इमां मनो रमयितुं सद्वृत्तपञ्चाशतम् आकाङ्क्षा यदि मोक्षवर्त्मनि मतिः सन्तोषसौख्ये यदि प्रद्वेषो विषयेषु यद्यथ रतिर्नीरागतायां यदि / तच्छुद्धां विधुतोऽपि कोमलतरामप्यब्जगर्भादिमां संवेगद्रुमकन्दली पठत भो बद्धो भवद्भयोऽञ्जलिः // 50 // // 51 // // 52 // 103
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy