________________ नो चेदिन्द्रियतस्करैस्तव हठात्तीक्ष्णाग्रभूरिस्फुरचिन्ताभल्लिशतैर्विभिद्य हृदयं ग्राह्यो विवेको मणिः // 12 // पुण्यानां प्रकटप्रवासपटहः प्रस्थानसन्मङ्गलं माहात्म्यस्य यदत्र मन्त्र इव यत्कीर्तेः समुच्चाटने / आत्मापि स्वयमेव लज्जत इव प्रायो यदुच्चारणे तन्मुञ्चानृतमाहतः कुरु सखे ! सत्येन सत्यं मुखे // 13 // कः कस्येह न को न कस्य किमिह स्वस्याथ किं चापरस्येत्थं चित्त ! भवस्वरूपमखिलं सञ्चिन्त्य मायामयम् / स्वर्णं लेष्टुमथो प्रियं रिपुमथो वेश्मान्यरण्यान्यथो स्त्रैणानीह तृणान्यथो समदृशा पश्यन् भवाकिञ्चनः // 14 // यन्मुक्तः किल चक्षुषेव रहितः प्राणी न विभ्राजते सर्वाङ्गं सुभगोऽपि हि व्रतविधेर्धर्मस्य यज्जीवितम् / धीराणामपि देवदानवनृणां यत्सर्वथा दुष्करं . तत्संसारलतालवित्रममलं रे ब्रह्मचर्यं भज. // 15 // दिक्षु भ्राम्यसि यासि पारमुदधेर्दैन्यं समालम्बसे सेवामिच्छसि गच्छसि प्रतिगृहं बद्धाञ्जलिर्याचसे / किं किं नास्य कृते करोषि वपुषो रे जीव ! लोकान्तरप्रस्थाने तु पदान्तरेऽपि भवता सार्द्धं न तद्यास्यति // 16 // लोकेभ्यः श्रृणुमः प्रतिक्षणमिमां संसारनिःसारतां निःसन्देहमथात्मनाप्यहरहः प्रत्यक्षमीक्षामहे / 'किन्त्वेकान्तनितान्तसौख्यफलदे संवेगतुङ्गद्रुमे नारोढुं क्षमसे दृढं निगडितो जीवः स्वकैः कर्मभिः // 17 // रे रे मानस ! निन्दितेषु विबुधैः कामेषु बद्ध्वाग्रह किं किम्पाकफलेष्विवान्तविरसेष्वेतेषु धत्से रतिम् ? /