________________ // 2 // श्री विमलाचार्यविरचिता ॥संवेगद्रुमकन्दली // दूरीभूतभवातिभिः प्रविदलन्मोहान्धकारोदयै समवंशनिवेशितेक्षणयुगैर्यद्वीक्ष्यते योगिभिः / तत्पारे परतेजसां च तमसां प्राप्तप्रतिष्ठं परं दुर्लक्ष्यं परमात्मसंज्ञममलं ज्योतिर्जयत्यक्षयम् रागद्वेषमदाभिमानमदनक्रोधादिभिर्वैरिभि प्तं सर्वमिदं चराचरमिति प्रायो जगज्जित्वरैः / इत्यन्तःकरणप्रमत्तकरिणः सोल्लुण्ठमुच्छिन्दतो, धर्माराममसौ नियन्त्रणकुटी पञ्चाशदारभ्यते चेतः ! किन्न वृथालजालगुपिले बद्ध्वा भवेऽस्मिन् रति सामग्री विफलीकरोषि सुचिराल्लब्ध्वा विशुद्धामिमाम् / शान्तिं मार्दवमार्जवं च शुचितां मुक्तिं तपः संयम सत्यं निर्धनताममैथुनमिमें धर्मं कुरुष्वादरात् येनान्धीकृतमानसो न मनुते प्रायः कुलीनोऽपि सन् कृत्याकृत्यविवेकमेत्यधमवल्लोके परित्याज्यताम् / धर्मं नो गणयत्यतिप्रियमपि द्वेष्टि स्वयं खिद्यते स क्षान्तिक्षुरिकाधरेण हृदय ! क्रोधो विजेयस्त्वया आत्मानं परितापयत्यनुकलं जन्मान्तरेष्वप्यलं दत्ते वैरपरम्परां परिजनस्योद्वेगमापादयेत् / धत्ते सद्गतिमार्गरोधनविधौ गन्धद्वीपत्वं ततः, क्रोधस्येत्थमरे ! रिपोः क्षणमपि स्थातुं कथं दीयते ? एष्यदुर्गतिपातभीत इव यं कृत्वा स्वयं कम्पते यद्भीतैरिव मांसशोणितरसैः कायः परित्यज्यते / .. // 3 // // 4 // // 5 //