________________ यत्पुत्रौ कामलोभौ मदभरकलुषौ सद्म मोहः प्रसिद्धं, ब्रह्मत्वं यास्यसि द्राक् स्पृशसि यदि सखें! तां हि निन्दानिषादीम्॥८४॥ मा मात्सर्यवशात् कुरुष्व रसने ! निन्दारसास्वादनं, यत्पृष्ठामिषभक्षणं परपरीवादं जिनैर्गर्हितम् / जानीहि व्यसनं दुष्टमुदितं(मनिशं) त्याज्यं विपाके कटु, त्वं चैतत् कुरुषे तवोपवसतेदुखं मुखं चैष्यति // 85 // मधुरवचनवक्ता स्याज्जनः सर्वमान्यः, कथयति नहि कश्चित्तस्य दोषान् सतोऽपि / प्रवितरति हि वित्तं कोकिलः किन्नु कस्माद् ? अपहरति च जल्पन् वायसः कस्य किं भोः ? // 86 // मा निन्दामदिराऽऽस्वादव्यसनावेष्टितो भव . तत् त्यक्तुं चेदशक्तोऽसि कुरुष्व स्वात्मनिन्दनम् // 87 // यत्कर्मारिनिषदनं निगदितं ध्यायन्ति यद्यौगिनो, नान्यद्येन समं तपः स्पृहयति प्राज्ञस्तु यस्मै सदा / यस्मात् केवलमेति यस्य महिमा श्रेष्ठस्तु यस्मिन्नभीः, तच्छश्वत्सुखसंचयैकसदनं नित्यं सदा योगिनः . // 88 // यस्योद्यद्वरभावनाभरमहाकादम्बिनीजून्मभू यः संसारनिदाघदावशमनो य: पापपङ्कापहः / * पिण्डस्थादिविचिन्तिताद्भुततरोद्बोधस्फुरद्गजितो, वैराग्यामृतमुक् स वर्षति सतां क्षेत्रे दया शस्यके // 89 // यदि हि जंगति रागद्वेषदस्युप्रदुष्टौ तव हृदयनिकाय्यस्याऽन्तराले प्रविष्टो / त्वमपि सुभट ! तावत् श्लाघ्यवैराग्यखड्गं सपदि परिगृहाण द्राक् ततो यास्यतस्तौ // 90 //