________________ जिणहरबिंबपइट्टा जत्तागमविविहपूअसंघेसु / मणवयणतणुदविणाणं वावारा सयलसुक्खफला // 3 / 235 // दया दमो सच्चमणीहया य बंभं च सोअं ववहारसुद्धी। कसायचाओ अ परोवयारो इअ जस्स धम्मो अरिहा स पुज्जो 3 / 236 ग्रहाः प्रसन्ना वशवर्तिनः सुरा, न व्यन्तराद्याः प्रभवन्ति च द्विषः / नश्यन्ति विघ्ना विलसन्ति सम्पदो, हृदि स्थिते यत्र जिनः स पूज्यताम् द्विधा भवापायगदोपशान्तये दिदेश यो धर्मरसायनं परम् / स्मृतोऽपि दत्ते हजरामरं पदं सोऽपूर्वधन्वन्तरिरर्च्यतां जिनः।। 3 / 238 // यदागमेनापि भवानसङ्ख्यान्, विदन्ति षड्जीवमयं च विश्वम् / मुक्तियदाज्ञावशगैव भव्या, विधीयतां सर्वविदोऽस्य भक्तिः 3 / 239 प्रातिहार्यरमयाऽतिशयैर्वा, वाग्गुणैः सुविशदागमधर्मः। यो निनाय नयते खलु नेष्यत्याश्रिता शिवपदं स जिनोऽर्यः 3 / 240 गीतनृत्तबहुतुर्यनिनादैरभ्रगजि जिनमर्चति योऽत्र। चक्रिशकजिनसम्पदमाप्तः, सोऽर्च्यते त्रिजगतापि तथैव // 3 // 241 / / प्ररोहन्ति सर्वेष्टसम्पत्प्रतत्यो, यदीयक्रमध्यानपूजादियोगात् / नवाब्दादिव क्षीयते चार्त्तितापः, स भद्राणि देयात्प्रभुर्वीतरागः 3 / 242 स मंगलालीभगवान्निरर्गला, जिनाधिराजः सततं तनोतु वः। धर्मद्रुमः कोऽपि स येन रोपितश्चक्रीन्द्रतीर्थेशपदानि यत्फलम् 3 / 243 आसत्तिमात्रादपि यो हरेत् प्रभुरैतिदुभिक्षगदाधुपद्रवान्। तदर्हणाया महिमाऽनुमीयतां कैस्तच्चतुर्वर्गकरो जिनोऽर्च्यताम् 3 / 244 हास्यादिषट्कं चतुरः कषायान् पञ्चाश्रवान् प्रेममदौ च केलिम्। तत्याज यस्त्याजयते च दोषानष्टादशाह शिवदोऽर्च्यतां सः 3 / 245 मनो जिनेन्दोर्गुणचिन्तनेन वचः पुनीते स्तुतिगीतिभिर्यः। तनुं च पूजाविधिनृत्तवाद्यैत्रिलोकपूज्यं लभते पदं सः // 3 / 246 // . 13