________________ एककुलेऽप्युपकारी लघुरपि मान्यः प्रदीप इव लोके। घात्यः प्रदीपनकवत् सुमहानपि शीघ्रमपकारी // 3 // 189 // अर्जयत्यद्भुतां लक्ष्मी गुणं प्रति नमद्धनुः / विना गुणं नमत्काष्ठं वक्रत्वाद्ययशः पुनः // 3 // 190 // छायाफलजलसहिता जलाशया दुर्लभा यथा लोके / सौहृदबोधमहत्त्वान्वितास्तथा मानवा लोके // 3 // 11 // प्रागेव केचिन्मधुरा घृतादिवत् प्रान्ते च चूतादिकवत् परेऽङ्गिनः / द्राक्षादिवत् केऽप्युभयत्र केचन द्वयेऽपि नैवेन्द्रकवारणादिवत् 3 / 192 भुवो भारकराः सन्ति कुत्र कुत्र न केऽद्रयः / दध्युः कुलाचला एव युगान्ताब्धिप्लुतां महीम् // 3193 // न भूच्छिष्टाम्बुपान् कान् के तर्पयन्ति जलाशयाः / चातकांस्त्वम्बुदा एवानुच्छिष्टैकाम्बुपायिनः // 3 / 194 // धर्मस्य विघ्नान्न कलौ सृजन्ति के स्वल्पे तदुद्योतकराः पुनर्यदि। तमस्विनी निर्मिमतेऽखिला अपि ज्योतिर्गणा वासरमर्क एव तु 3 / 195 धर्म्य पथ्यं श्रयन्ति ज्ञा धाधर्म्यविमिश्रणे। जलं त्यक्त्वा न कि हंसाः पिबन्ति विशदं पयः // 3 / 196 // लभन्ते गौरवं सन्तो माध्यस्थ्यात्तत्त्वदर्शिनः / लेभे जगत्सु मध्यस्थो मेरुः सर्वाद्रिषूच्चताम् // 3 // 197 // विश्वस्याप्युपकारकोऽसि जनको रत्नाकरस्ते भुवस्त्वं तापं हरसे दधासि भुवने गर्जोन्नती दानिषु / चेत् सामान्यनृणां गिरोऽपि गणयस्युच्चावचास्तज्जगज्जीवातोबिरुदं भविष्यति किमाधारं हहा मेघ ! हे // 3198 / / अवञ्चनं स्वामिनि दर्शनानतिः सत्योपकाराश्रितपालनानि च / दानं नयो दीनदयातरक्षणं धर्मः स्मृतः क्षत्रकुलाय भद्रकृत् // 3 / 199 / / 150