________________ न्याय्यैव वृत्तिगुरुदेवपूजा पित्रादिसंतुष्टिरुपक्रिया च / दीने दयोत्साहमतिः ससत्त्वा गतामपि द्राक् श्रियमानयन्ति॥ 3 / 160 // प्रियहितरचनं वचनं वपुरुपकृत् धर्मचिन्तकं चेतः।। वित्तं त्रिवर्गहेतुः सुकृतमयं श्लाघ्यते चायुः // 3 / 161 // धर्मः स नो यत्र जनापवादः सा चातुरी दुश्चरितं न यत्र / ग्रन्थः स तत्त्वाधिगमो यतः स्यात् तत्त्वं च तद्येन महोदयश्रीः 33162 . वृद्धौ मातापितरौ गुरुः प्रिया निर्बलान्यपत्यानि / पोष्यानि निर्धनैरपि गृहिभिः श्रेयोऽर्थमिह शक्त्या // 3 // 163 // देवः कलाधर्मगुरू पिताम्बा भयापहर्ता शुभवृत्तिदाता / भ्रातोपकारी भगिनी च वृद्धाः पूज्या यथार्ह गृहिणा शुभाय 3 / 164 वृद्धौ च मातापितरौ गुरुश्च मित्राण्यपत्यानि सती च भार्या / स्वसाधवोऽस्याश्च सुतापतिश्च भ्राता च पोष्या गृहिणः स्वभाजः 3 / 165 भो (नो) बालेष्वपि हीलना किल गुणोच्चारः खलानामपि प्रह्वत्वं च रिपुष्वपि प्रणमनं पूज्येषु धर्मे रतिः / शास्त्रेषु व्यसनं गिरां मधुरिमा धिक्कारमात्सर्यमुक् सर्वस्योपकृतिर्भयं कुयशसो हेतुः समग्रश्रियाम् // 3166 // लक्ष्मीस्त्यागविवेकपुण्यसफला धर्मो दयाद्यन्वितः पुण्यश्रेणिमयं जनुर्जनहिता शास्त्रार्थरम्या मतिः / चातुर्यं गतवंचनं सुमधुरा वाग् ज्ञानमात्मार्थकृत् प्रौढिर्धर्मजनोपकारसुभगा भाग्यैर्भवेत् केषुचित् // 3 // 167 // लोभः सुकृते व्यसनं शास्त्रे दोषेक्षणं कुतत्त्वेषु / निर्दाक्षिण्यं कुपथोऽत्यागे भवरिपुजयश्रिये कृतिनाम् // 3 // 168 // 156