________________ जिनगुरुसंघे भक्तिं तन्वन्नावश्यकानि भवभीरुः। सदयसद्व्यवहारः श्राद्धो लभते श्रियोऽभीष्टाः // 393 // पितृवद्देवगुरून् यः सुतबन्धूनिव सधर्मकान् पश्येत् / निधिजीवितमिव धर्मं तस्य वशाः संपदो निखिलाः // 394 // जिनसद्गुरुसंघार्चा व्यवहतिशुद्धिः परोपकारित्वम्। . औचित्यं च विभूषणमेतलक्ष्मीर्वशीकुरुते // 3 / 95 // कषायशैथिल्यमुदारचित्तता कृतज्ञता सर्वजनेष्वनुग्रहः / प्रपन्नधर्मे दृढिमाऽर्यपूजनं, गुणादृति विजिनत्वलक्षणम् // 3 / 96 // श्रुतजिनगुरुसंघानां पूजा सोद्यापनानि च तपांसि। पौषधसामायिकमपि सद्यः श्रेयो वशीकुर्युः // 39 // पार्श्वस्थादिकुतीर्थसङ्गरहितं सल्लक्षणभूषणै र्युक्तं दर्शनमुत्तमव्यवहतिः श्रीदेवसंघार्चनम्। पित्रादावुचितज्ञता व्रतरतिः पर्वज्ञताऽऽवश्यकाऽक्षेपो धैर्यगभीरते च गृहिणो धर्मो ह्ययं श्रेयसे // 3 / 98 // तपः श्रेयोऽखिलं दत्ते विशिष्योद्यापनैः सह। / कृतार्हद्गुरुसंघार्चादिभिः सातिशयं च तत् // 3 / 99 // पूजाऽर्हतांसद्गुरुसेवनं२ च, स्वाध्यायसङ्ग३श्च तपो४ दया५ च। दानं च पात्रेगृहिणां शिवाय कर्माण्यमूनि प्रतिवासरं षट् // 3 // 10 // पूजाऽर्हतां१ सद्गुरुसेवनं च शास्त्रे रतिर्दानदमोपकाराः / सत्कर्मबुद्धिर्व्यवहारशुद्धिर्धर्मः सतां वाञ्छितशर्मदायी // 3101 / / जिनसंघसदर्चनैर्धनव्ययतः क्षेत्रगणे क्रियागुणैः। वरदर्शनसव्रतादिभिर्नरजन्मेष्टफलं कृतिन् ! कुरु // 3102 // जिनेन्द्रभक्त्या गुरुसंघपूजया तपोभिरुद्यापनदीप्रशासनैः। / कृतार्चनाद्यैर्विशदक्रियागुणैः सुधीविदध्यात्सकलेष्टकृज्जनुः॥ 3 / 103 // 150