________________ दारिद्यादीनि पुष्पाण्यघफलदमिमं नित्यतृष्णाम्बुसिक्तं, छित्त्वा पुण्यैः कुंठारैर्नरकफलमयं स्याज्जनः सज्जयश्रीः // 383 // - (चतुर्थोऽशः) . देवो जिनोऽष्टादशदोषवर्जितः षट्त्रिंशता सूरिगुणैर्युतो गुरुः / धर्मो दशद्वादशधा भजन् भिदो, ददाति मुक्तिं न कथञ्चनापरः 3 / 84 भक्तिजिनेन्दोः सुगुरोश्च सेवा, सम्यक्त्वशुद्धिर्वतधारणं च। नित्यं षडावश्यकनिर्मितश्च दानादिरङ्गश्च शिवाय धर्मः 385 देवः शिवश्रीप्रतिभूजिनेश्वरो गुरुः क्रियाढ्योऽखिलतत्त्वदेशकः।। धर्मश्च ताभ्यां गदितो निराश्रवो न लभ्यते दूरमहोदयैध्रुवम् // 3 // 86 // पितेव जैनः समयो दयाप्रसूः सद्भावना चानुचरी गुणाः सुताः / सदा सहायाः सुकृतानि कीर्तयः पुत्र्यः कुटुम्बेऽत्र रतः सदा सुखी संघाधिपत्यं गुरुजैनचैत्यबिम्बप्रतिष्ठापनमागमोद्धृतिः। सम्यक्त्वशुद्धिर्यतिधर्मदापनं धर्मा अमी स्युजिननामकर्मणे // 3 // 88 // अचीकरंश्चैत्यमबीभरंस्तथा बिम्बानि सिद्धान्तमलीलिखंश्च ये। अपूपुजन् संघमददिद्युतन्मतं जिनस्य तैः सर्वरमावशीकृताः / / 3 / 89 // अचीकरंश्चैत्यमबीभरंस्तथा बिम्बानि चालीलिखदागमं च यः / चारित्रमग्राहयदात्मजादिकान् वशीकृतास्तैः सकलेष्टसंपदः // 3 / 90 // स्थालं दर्शनमुज्ज्वलं व्रतगुणाः पक्वान्नखण्डादयः, शालिः शीलमतिस्तपोविधिरतिर्दालिः सुभावो घृतम्। शाकान्यार्षगिरः क्रिया वरदधि ज्ञानं जलं शुद्धये, श्रेयस्तृप्तिसुखाय भोजनमिदं निघ्नद्भवार्तिक्षुधम् // 3 / 91 // द्वेधा धर्मरथं नयद्वयवृषं ज्ञानक्रियाचक्रभृत्, सम्यक्त्वव्रतपीठशुद्धफलकं ज्ञानादिकोद्धिप्रथम् / श्रित्वा सद्गुरुसारथिं गुणगणैर्बद्धं शिवेच्छायुगं, प्रोल्लंघ्योरुभवाटवीं शिवपुरे भव्योऽश्नुते शं परम् // 3 / 92 // . . 14