________________ // 377 // नीचैः कुलेजनिरपारदरिद्रभावे१ दौर्भाग्य 2 मामयततिः 3 कुंकुटुम्बयोग: 4 . वाग्निष्ठुरा५ वध६ पराभव७दुर्यशांसि 8 प्रष्टैर्वियुक्ति९ रिति पापतरो: फलानि दारिद्रयविप्लुतमनास्तदपोहकाङ्क्षी पापं करोष्यनुदिनं द्रविणार्जनाय। भो! साध्यसाधनविभागमवैषि मूढ! नापथ्यभोजनकृतो हि गदोपशान्तिः दास्यं वरं न च समृद्धिभरोऽप्यधर्मात् कंदाशनं वरमधैर्न सुधोपभोगः / वासो वरं सह मृगैरघजं न राज्यं मृत्युर्वरं सवृजिनं न च दीर्घमायुः : . आत्मन्! जडोऽसि बधिरः किमनीक्षणोऽसि यदुष्कृतानि कुरुषेऽप्युदयाभिलाषी जानासि नैतदपि सर्वजनेषु रूढं गोपा अपि क्षयमिह प्रवदन्ति पापात् तरुवत्तटिनीतटोद्गताः प्रमदाहृद्गतगुह्यमन्त्रवत्! जलवच्च मृदामपात्रगा न चिरं स्थास्यति पापिषु श्रियः // 376 // दीपवन्यायजं द्रव्यं दीप्यते चिरमण्वपि। तृणाग्निवदनीत्युत्थं भूयोऽप्याशु विनश्यति स्पृहयन् यदघान्यधीः सृजेद् धनभोगादि तदश्नुते न वा। यदि वाऽणु चलं च पापजा विपदंस्त्वत्र परत्र दुःसहाः .. // 378 // पापानुबन्धिसुकृतस्य लवैः कदाचित् केषाञ्चनाप्यघकृतामपि लक्ष्यते श्री: साऽप्यायतौ नरकहेतुतयाऽऽपदेव पुष्टिर्यथैव हरितैः सरसैरजस्य 379 येषां कृते चरसि पापभरं कलत्रपुत्रादयः पृथगमी निजकर्मवश्याः। यान्तीत्यवैहि ननु तत्फलभोगकाले भावी न कोऽपि नरकापदि ते सहायः धिक् पौरुषं सह महत्त्वसमृद्धिभोगैर्यातु क्षयं चतुरिमा स सरूपधैर्यः / किं तैः सहायनिकरैः सुतबन्धुदारैर्येष्वत्र सत्स्वपि भवेन्नरकव्यथाऽधैः ते बान्धवाः स च पिता जननी च सैव देवः स एव स गुरुः स सृहृच्च सम्यग् यद्वाक्सुधां हि पिबतो वृजिनानिवृत्तौ, बुद्धिर्भवेत् किल यया सकलार्त्तिनाशः मूलं यस्योरुमोहो भववनगहने स्कन्धबन्धः कुबोधः, . शाखा प्रोद्यात्कषाया दलततिरतुलदेहगेहादिचिन्ता। . 148