________________ बिभेषि दुःखाद्यदि जीव! मा ततो, ममत्वमर्थेषु सुतेषु वा कृथाः। ममत्वजं दुःखमवैहि तत् त्यजन् भव द्रुतं श्रीनमिवत् सदा सुखी यदुपतिर्न सुतैः शक्तिोऽवितुं न शकिताः सगरेण हि सूनवः / न हरयोऽपि बलैरिति चिन्तयन् भवगति भव साम्यधिया सुखी 363 अप्राप्ते नैव यस्मिन् भवति शिवसुखश्रीर्भवत्येव चाप्ते प्राप्तिर्यस्यार्कसंख्यैस्त्वतिदुरधिगमैर्मानुषत्वादिकांगैः / आलस्यायेषु चाप्यस्त्र्यधिकदशसु यः काष्ठिकेष्वर्दितेषु श्रीमानुधज्जयश्रीः स सकलहितकृत् सेव्यतां जैनधर्मः // 3 // 64 // (तृतीयोऽशः) भो भो जना! यदि भवार्णवपातभीताः सौख्यानि वाञ्छथ महोदयसंगतानि तद्धर्मपोतमिममार्हतमाश्रयध्वं वक्षोगतां कठिनपापशिलां विहाय मुक्त्वाऽपि गर्भवसतिं पुनरेति जीवस्तारुण्यमृच्छति च बाल्यमिवव्यपायम् आसत्तिमेति च जरा मरणं त्ववश्यं तदुष्कृतानि कुरुषे किमपास्तशङ्कः? दुःखानि दूरतरमिच्छसि चेद्विहातुं तत् किं करोषि सततं ननु दुष्कृतानि? स्नेहाक्तभाजन इवात्र रजांसि दुःखान्यागत्य पातकभृते हि बलालगन्ति पापानि जीव! कुरुषे विगलद्विवेक: सौख्यानि वाञ्छसि नित्यमहो जडोऽसि किंपाकपादपफलैः किमिहीपभुक्तैश्चैतन्यजीवितसुखेन्द्रियतुष्टयः स्युः? हालाहलं पिबसि वाञ्छसि दीर्घमायुर्दावानलं विंशसि काङ्क्षसि शीतिमानम् भुंझे कुपथ्यमथ चेच्छसि कल्पतां यत् पापं तनोषि सुखसंततिमीहसे च तोषं नयेन्द्रमपि चक्रधरं भजस्व मन्त्रान् प्रसाधय वशीकुरु चेटकादीन्। दुर्गानयतिविकांस्तर वारिराशीन् पापे रतस्य न तथापि समीहिताप्तिः पापं सुखेऽपि विदधात्यधमः सुभावान्निर्वाहहेतुमथ चापदि मध्यमोउंगी प्राणानपि त्यजति साधुजनो विपत्सु नाकृत्यमाचरति चायतिशर्मकामः 140