________________ चपलं धनमायुरल्पकं स्वजनाः स्वार्थपरा वपुः क्षयि। ललनाः कुटिलाः कुतः पराभवभीविघ्नभृते भवे सुखम् ? // 350 / / नलिनीदलगाम्बुबिन्दुवच्चपलैस्तुच्छतरैः सुखैर्नृणाम्। परिवंचयसि स्वमज्ञ ! ही सुचिरानन्तसुरादिशर्मतः // 351 // उरभ्रकाकिण्युदबिन्दुकाम्रवणिक्त्रयीशाकटभिक्षुकाद्यैः। निदर्शनैर्दारितमर्त्यजन्मा दुःखी प्रमादैर्बहु शोचिताऽसि // 35.2 // द्रविणैः किमिहापि गत्वरैः स्वजनैः स्वार्थपरैभिदेलिमैः / वपुषाऽपि च जीर्यताऽनिशं कुरु धर्मं हितमात्मने परम् // 353 // . न धर्मकार्यसमं हि कार्य न धर्मदेष्टुः सममस्ति मित्रम्। न बोधिलाभस्य समोऽसि लाभो नीरागसौख्यस्य समं न सौख्यम् विकटा अट पर्वताटवीस्तर वार्थीन् भज भूपतीनपि। अपि साधय मन्त्रदेवता नं तु सौख्यं सुकृतैर्विनाऽस्ति ते // 3 // 55 // . भजते सुखितोऽपि बुद्धिमान् जिनधर्मं सुखमौलकारणम्। अपि दुःखगतिः(तः) स एव यत् परमं दुःखगदक्षयौषधम् // 356 // यत एवामिता रोगा यत एवाबलं वपुः। अत्राणा यत एवार्ता धर्मस्तेनैव सेव्यते / // 357 // दहत्यग्निविषं हन्ति दुर्गन्धं लसुनं यथा। तथा प्राणिष्वनित्यत्वे सतां का परिदेवना? / / 3 / 58 // अस्तावसाना उदया विपत्त्यंताश्च सम्पदः / वियोगांताश्च संयोगास्तन्नित्यं धर्ममाचर // 359 // चलं धनं न स्थिरमीश्वरत्वं सविघ्नमायुर्वपुरप्यसारम् / त्राता न दुःखात् स्वजनः परो वा धर्मस्ततस्त्राणकरो निषेव्यः 360 स्वप्ने 1 न्द्रजाल 2 नाटक 3 वृक्षादिगतांगि 4 योगवज्ज्ञात्वा। बाह्यं कुटुम्बयोगं धर्मकुटुम्बी भव सदाऽऽत्मन्! . // 361 // 146