________________ दयादमार्हन्मुनिसंघपूजया परोपकारो व्यवहारशुद्धिः।। शास्त्रप्रणीता विलसन्ति यस्मिन् धर्म भजध्वं भवभीरवस्तम् 3 / 104 भवार्तिघातं जिनमौहितप्रदं धर्म तदुक्तं च दयादिपावनम्। गुरुं विशुद्धाचरणं महीयते यस्तस्य संपत्प्रचयो न हीयते // 3105 // पूजां जिनेन्द्रस्य तपश्च दानमावश्यकाद्यं कुरु नित्यमेव / विशेषतः पर्वसु तेषु भावाद्देवर्षिमान्येषु फलं ह्यनन्तम् // 3 / 106 // जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः सत्फलाः स्वस्वकाले स्युरेवं धर्मोऽपि पर्वसु // 3 / 107 // सम्यक्त्वमूलो व्रतदीर्घसालो ज्ञानालवालो गुणपत्रमालः / नृपादिसंपत्कुसुमो गृहस्थधर्मद्रुमो मुक्तिफलं प्रसूते // 3 / 108 // लक्ष्मीः क्षेत्रनियोजनेन सुभगा चक्रे स्वकीर्तिर्जगद्वासस्थानसमर्पणेन मुदिता सन्तो मुदोल्लासिनः / सद्भुतस्तवनाः कृताश्च कवयोऽर्हच्छासनं द्योतितं पाणिस्थं शिवशर्म निर्मितमहो पुण्यात्त्वयाऽस्मात्कृतिन् ? // 3 / 109 // विरतिं प्रियप्रियामिव सुरमणिमिव दर्शनं गुणान् सुतवत् / जिनधर्माश्च निधीनिव चिंतय चेदीहसे श्रेयः // 3110 // वपुर्धर्मोद्यमैः श्लाध्यं स्याच्चित्तं तत्त्वचिन्तया। कुटुम्ब धर्मसाहाय्याद्वित्तं च क्षेत्रवापतः . // 3 // 111 // पुण्यक्रियया प्रीति(तिः पापादतिर्जिनाभिहिते / हर्षः प्रभावनायां द्वेषो रोषादिषु च शिवकृत् // 3 / 112 // अनाचारेष्वसामर्थ्यमचातुर्यं च वञ्चने / आलस्यं च महारम्भे श्रेयसे मूकता कलौ // 3 / 113 // शिवपदंसुखेऽभिलाषो निर्वेदो भवसुखेषु धीमैत्र्याम् / / जगदुपकारे चित्तं लक्षणमासन्नमोक्षस्य // 3 / 114 // . 151