________________ मितप्रमाणास्तनुभूजलादयो 1 मितप्रभावा ऋभुक्षद्रुमादयः 2 / फलन्ति वृक्षा नियतैः फलैः 3 पुनर्मितिस्त्रिधाऽप्यस्ति न धर्मवस्तुनः जलायतेऽग्नि 1 जलधिः स्थलायते 2 पुरायतेऽरण्य 3 मगः समायते 4 / सुहृद्यतेऽरि५ र्जनकायते नृपः 6 सतां नितान्तं सुकृतानुभावतः 317 भवन्ति तेषां विपदोऽपि संपदः 1, प्रयत्नसान्निध्यकृतः सुराः सताम् 2 जनाश्च सर्वे स्वजनाः 3 कृतावना लसन्ति येषां सृकतैकऋद्धयः 3 / 18 आधारभूतो जगतां त्रयस्य यो 1 नियोजकोऽर्केन्दुपयोधिवासुचाम् 2 / तनोति मर्त्यामरमुक्तिसम्पद-३ स्तमेव धर्मं भजतेष्टशर्मणे // 3 // 19 // अबान्धवानां प्रतिभाति बान्धवः 1 सदा सहायः परमोऽसहायिनाम् 2 / पर:प्रभुनिष्प्रभुतातिसंगिनां 3 जिनेन्द्रधर्मः सकलेष्टसाधनात्।। 3 / 20 / / यदम्बुदाः स्युः खलु कालवर्षिणो 1 न वान्ति वाता यदतिस्थितिक्रमाः 2 न वार्द्धयश्च प्रसरन्ति 3 नाग्नयो ज्वलन्ति 4 वा धर्मविजृम्भितं हि तत् द्रुमैः सुराणां मणिभिश्च किं नृणां पर्याप्तमाप्तैः कलशैः सधेनुभिः / चिन्त्या अचिन्त्या अपि संपदोऽखिला ददाति जैनेश्वरधर्म एव तत् दुराशया न प्रभवन्ति दुर्जना न चापि चौरा न च दैवतग्रहाः। न शाकिनीसिंहभुजंगमादयो न चामयाः प्राणिनि पुण्यपालिते 3 / 23 तनोति रक्षामपि गर्भगस्य यः शिशोश्च यो वा शयितस्य योऽङ्गिनः। प्रमादिनो दैवपरस्य चापि यः स जैनधर्मः क्रियतां वृतिर्बुधाः 3 / 24 स्फुरन्ति यद्द्वारि गजास्तुरङ्गमा विमुक्तसंख्याश्च भटा रणोत्कटाः / यच्छत्रसिंहासनचामरार्चना मृदङ्गवीणादिरवैश्च जागराः // 3 // 25 // प्रणम्रशीषैश्च निदेशधारणं समग्रलोकैः प्रभुतेष्टकर्मसु।। यदप्सरः श्रीमदहत्प्रियाततिर्नृपस्य तद्धर्मसमृद्धिजं फलम् // 3 / 26 // अखण्डिताज्ञा दितिजैश्वरैरपि 1 त्रिखण्डसाम्राज्यरमा स्वयंवरा 2 / अयत्नदैवास्त्रलाभबलं तनौ 3 भवेद्धरीणां सुकृतैः पुराकृतैः 4 3 / 27 143