________________ चिरायुः 1 शिव 2 मारोग्यं 3, संपदो 4 ऽभीष्टसिद्धयः 5 / जयः सविजयानंदो 6, भवति जिनधर्मतः // 35 // प्रवर्धमानोत्तममंगलावली: 1, श्रियः सदानन्दरसोमिवर्मिताः 2 / सुखानि 3 विश्वाशयविश्रमास्पदं, धर्मो वशत्वं 4 नयते जिनोदितः 3 / 6 त्रिवर्गसारः 1 सुजनैः स तत्त्वतो, निधिः सुखानां 2 सकलेष्टसाधकः 3 अनिष्टह 4 लोकयुगे हितावहो 5, धर्मो निषेव्यः सुरसेवितोऽर्हत: 37 त्रैधदुःखनिचयोऽपचीयते 1, चीयते सुखसंचयस्त्रिधा 2 / पूर्यते त्रिविधमर्थितं 3 यतस्तं, त्रिधा भजत धर्ममार्हतम् // 3 // 8 // सुपर्वराजिप्रथितप्रभावः 1 स्वजातिसीमेष्टफलो 2 ऽनपाय: 3 / प्रयत्नलभ्यः 4 कुशलैजिनोऽस्य धर्मश्च कल्पद्रुसमः शिवाय।। 3 / 9 // जयविजयविधाता 1 विश्वविश्वेष्टदाता 2, भवजलनिधिसेतु 3 विश्वनिर्वाहहेतुः 4 / अखिलगुणनिधानं 5 सर्वधर्मप्रधानं 6, वितरतु जिनधर्मः संततं सर्वशर्म . . // 310 // देवो जिनेन्द्रो 1 गुरवश्चरित्रिणो 2, धर्मस्तदुक्तश्च दयादिपावनः 3 / सुता विनीता: 4 प्रणयी परिच्छदो 5, मनोऽनुगाः स्युर्ललनाश्च 6 पुण्यतः सुखानि दत्ते 1 हरते विपत्तती 2 स्तनोति भद्राण्य 3 शिवानि नाशयन् 4 / सहाधिभिर्व्याधिगणानिहन्ति यो 5, धर्मं भजन्त्वार्हतमेव तं बुधाः मंगलानि ससुखानि 1 जयश्री: 2 संपदोऽप्यभिमता 3 श्चिरमायुः 4 / सद्धियः 5 सुभगता 6 प्रभुता 7 च स्युर्यतो भजत तं जिनधर्मम् वसूनि पृथ्व्यः खनयो मणीन् द्रुमाः, फलानि मुक्ताः किल ताम्रपणिका लताः प्रसूनानि गजांश्च विंध्यभूः पुण्यात्मनां बिभ्रति भुक्तयेऽङ्गिनाम् भवन्ति शिल्पानि कृतानि शिल्पिनां 1 विशिष्टकर्माण्यपि कर्मकारिणाम् 2 / सुशिक्षिताश्चापि कला: कलावतां 3 श्रेयोभृतामेव सुखोपभुक्तये 3 / 15 142