________________ राकाभर्तुर्मयूखैरुपचयमधिकं लम्भिते यस्य चञ्चच्चन्द्राश्मस्तम्भभित्तिप्रभवनवरुचां कुट्टिमे व्योमभाजि / विश्राम्यन्तो विहङ्गा हिमगिरिशिखरोत्सङ्गवेदीभ्रमेण क्षोणीपीठे निनादैस्तुमुलितवियतो लोलपक्षाः पतन्ति // 89 // प्रतिरजनि निशीथे यत्र नैत्रैकलेह्यान् त्रिशपुरपुरन्ध्रीरासकान् दृष्टुकामाः / सततमधिवसंत्यो यामिकानां कुटीरे नगरहरिणनेत्राः प्रेयसः खेदयन्ति || 90 // लब्ध्वा साम्राज्यलक्ष्मी किमपि कलयतोऽहङ्कृति शीतरश्मेरुन्मत्तैः कान्तिकाण्डैः स्फटिकजयितयाछनतां लम्भितस्य। वक्त्राण्याशांगनानां कपिशरुचिवशात्स्स्रग्भिरुत्तंसयद्भिः कुम्भेर्दण्डैश्च हेम्नः प्रथयति जनता यस्य राकासु सत्ताम् // 91 // यस्मिन् नित्यं निशीथे जिनपतिचरणाम्भोजपूजाविधानश्रद्धावधिष्णुहर्षात् करमलयविमुखान् कुर्वतस्ताण्डवानि / गीर्वाणान् दृष्टकामाः सविधसहचरीसंभृतोत्तालमालान् पौराः स्वर्णोपचारैः प्रहरकमनिशं यामिकानर्थयन्ते // 92 // यत्रालेख्यसभासु चित्रचनासौभाग्यसंपादना-. संरम्भः फलमेति शिल्पकृतिनामेकत्र भित्तौ क्वचित् / सांमुख्यं भजतां पुनर्मणिशिलाव्यासंगरङ्गत्त्विषाम् बिम्बोल्लासवशेन चित्रघटना भित्त्यन्तराणामपि // 93 // भेरीभाङ्कारपूरप्रणयमुकुरितो घोरघोरैः प्रसर्पन् घण्टाटङ्कारघोषैः प्रतिनदितघनैर्लम्भितो मांसलत्वम् / उर्वीमापूर्य तूर्यध्वनिरनवरतं स्मारयन् तार्क्ष्यपक्षप्रान्ताघातांत्रिसन्ध्यं रचयति चकितं यत्र पाताललोकम् // 94 //