________________ मध्यं वा मण्डपो वा बहिरजिरमथो नाट्यलीलागृहं वा यत्र स्थानं न किञ्चित्प्रसभमसुमतां यन्न रुद्धं सहस्त्रैः / / तीव्रांशुग्राववेदीतलमनलकणवातसंपातदुस्थैर्दूरस्थैर्वीक्ष्यमाणं पुनरहनि जनैः शून्यपार्श्व सदैव // 83 // गन्धारग्रामगीतध्वनिभिरविरतं यत्र तारं स्पृशद्भिः श्रद्धाव्यस्तव्यवस्थैरहमहमिकया मङ्गलोल्लूलघोषैः।। ध्वस्तेऽन्योन्यं विशेषे श्रुतिसदसि सुधावर्षिणि व्यर्थयन्त्यः किन्नर्यो देवताभ्यः सततगुरुरुषो देवता:किन्नरीभ्यः // 84 // अश्मानस्तीव्ररश्मेर्घनतुहिनभरं संहरन्तः सहस्ये कुर्वन्तो यत्र धूपज्वलनमुपरतक्लेशमुच्चैः प्रशस्याः / द्वेष्याश्च च्छिद्रयन्तः शिखिकणनिकरैश्चीनचीरावचूलान् शैलूषाणां कथंचिज्जनजनितमुदं विक्षिपन्तश्च रङ्गम् // 85 // गृह्णीध्वं पारिजातप्रभवसुमनसो मानसीयैः पयोभिः कुम्भानापूरयध्वं कुरुत करिपतेः कल्पनां किञ्चिदग्र्याम् / पौलोमि क्षिप्रमेही प्रचलत सबला लोकपालाः पुरस्तादित्थं यस्मिन् यियासोरभसविकसिता: स्वर्गनाथस्य वाचाः // 86 // हस्तोत्संगोपविष्टस्फुटमणिमुकुटज्योतिरुद्योतिताशामात्मीयां रत्नभित्तावधिरजनि तनुं बिम्बितां वीक्ष्य यस्मिन् / एतैत क्षिप्रमन्तर्भवनमभिनवः कोऽप्यदृष्टप्रविष्टः पूत्कुर्वन्नित्थमुच्चैः क्लमयति निकरं पूजको यामिकानाम् // 87 // शृंगस्थेभ्यो हरिभ्यः प्रतिभयवशतः कातर: स्व:करेणु- .. नश्यन् दैत्यांगनानां मुखकमलवनं नेष्यते हास्यलक्ष्मीम् / तस्मादारोढुमुच्चैःश्रवसि हयपतौ साम्प्रतं साम्प्रतं वः / पौलोमी शकमेवं निगदति चलितं यस्य यात्रोत्सवाय // 88 //