________________ निर्मोकान् मन्यमानाः सरभसमनसः संहरन्ते मयूराः कीराः कर्षन्ति पाकप्रणयपरिणमद्दाडिमीबीजबुद्धया / ज्योत्स्नाभ्रान्त्या चकोराः प्रतिनिशमनिशं चञ्चुभिर्विक्षिपन्ते मुक्तादामावचूलान् विविधमणिगृहद्वारदेशेषु यस्मिन् .. // 47 // यस्मिन्नारब्धनीडान् धुमणिमणिशिलापुत्रिकाः पाणिपद्मप्रान्तोन्मुक्तैः स्फुलिङ्गनवकनकमयीर्गोलिकास्तर्जयद्भिः / : यातायातानि मध्ये किमपि विदधतस्त्रासन्त्यः शुकानां पोतान्निाजशांतं मुनिनिकरमपि प्रत्यहं हासयन्ति // 48 // द्वेषोन्मेषं वहद्भिर्द्विषति सुहृदि च प्रेमसीमानमन्यै-.. र्देवैः कार्यं किमेभिस्तुलितजनपदाचारसंस्कारविजैः / देवः सेव्योऽयमेक: समसुहृदहितः प्राप्तसंसारपारो .. यस्येत्थं केतुदण्डः कथयति जगते किङ्किणीनां निनादैः // 49 // यत्राभ्यणे कृतवसतयो गीतवादित्रनृत्यप्रेक्षाक्षिप्ताः प्रथमवयसः पौरविप्रादिवध्वः / कर्मक्रुद्धश्वसुरगृहिणीवाग्भिरुच्चावचाभिआद्यन्मन्युग्लपितमनसोऽप्यापतन्त्येव भूयः // 50 // प्राप्यास्त्रीत्रैस्तपोभिर्भवशतविहितैर्देवलोकोपभोगान् श्रद्धालूनां जिनाङ्ग्रिस्तुतिरतमनसां मर्त्यभावेऽपि कर्तुम् / .. आरूढान् व्योमपीठी हठहणकृते संपदां स्वर्गजानां बाहुस्तम्भानिवोर्ध्वान् वहति यदलघूनंसदेशेषु दण्डान् // 51 // कम्प्राणां वातघातैर्महदपि हरितां चक्रवालं समन्ता- . दाक्रामत्यक्रमेण प्रवरमरकतस्तम्भधाम्नां प्रताने। कृच्छ्रादाकृष्य चन्द्रं तृणकवलतृषा द्वारवेदी प्रपन्न- . स्त्रस्यन् कण्ठीरवेभ्यः प्रथयति सुदृशां यत्र हास्यं कुरङ्गः // 52 //