________________ // 41 // // 42 // // 43 // प्रेक्षामण्डपमूर्द्धगां शिखरगां दण्डोर्ध्वगां कूटगां दृष्ट्वा बिम्बगतां तले मणिशिले स्वर्णस्य कुम्भावलीम् / स्नानाम्भ:कलशान् बहिर्विनिहितान् पश्यन् जरन् यामिको मुग्धश्चौरभिया निषेधति जनान् यत्राहतो भ्राम्यतः स्तम्भेषु केतकदलग्रथितेषु हन्त भारो महान् कथममी निवेशितोऽयम् / इत्थं सविस्मयमनस्तरलानि यत्र व्याख्यागृहं शिशुकुलानि विलोकयन्ति कामत्युग्रानवाप्य ध्वजपटपटलोद्भूतवाताभिघातान् दिक्चक्रं चक्रवाले घुमणिमणिभुवां जातवेदः कणानाम् / दुर्वर्णस्तम्भरोचिः प्रचयपरिचयश्वेतितोष्णांशुमूर्तेयस्योवं चन्द्रतारानिकरपरिकरा व्योमलक्ष्मीदिवापि अत्रास्ते देवराजः खलु मम न ततो राजराजस्य धर्तुं लक्ष्मीः स्वस्मिन्निशांते समुचितमखिलस्वर्गिवर्गा~पादः / इत्यौचित्यार्चनीयत्रिभुवनजनतामौलिरत्नं कुबेरचिक्षेपाक्षेपमुच्चैर्महसि निजनिधीन् यत्र कुम्भच्छलेन शोणग्रावांशुजालैः क्रमकमलतले यावकश्रीर्ललाटप्रान्ते सिन्दूररेखा मसृणघुसृणभूरङ्गभागेऽगरागः / कौसुम्भी चीनपट्टे द्युतिरधरदले हारि ताम्बूलमित्थं यस्मिन् वैधव्यभाजोप्यविधववनितामण्डना: पौरनार्यः पुष्पं यस्मिन् कनककमलान्यंशुकं चीनवास:स्नानस्याम्भः कुसुमरजसो दीपिकारत्नरोचिः / आकल्पश्रीविविधमणयो रक्षकाः क्षेत्रपाला धूपक्षोदो मृगमदकणाः पूजकाः क्ष्माभुजश्च // 44 // // 45 // // 46 // .53