________________ दृष्टुं स्वां रूपलक्ष्मी स्तबकितकुतुकोत्ताननेत्रैकपेयां प्रातः प्रातर्यदन्तः प्रतिफलति बहिर्दर्पणोद्भासिभित्तेः // 34 // पापीयान् प्रत्यहं ते गुरुशिखरशिरः संस्पृशाम्यग्रपादैः सूर्यग्रावस्फुलिङ्गैर्यदपि विनमतस्त्रासमासादयामि / तन्मे सर्वं विसोढुं प्रभवति भगवान् विश्वलोकैकबन्धुयत्रैवं तिग्मभानुर्जिनमनुनयते बिम्बित: प्राङ्गणोर्व्याम् // 35 // श्रीमान् देवाधिदेवस्त्रिजगदभयभूविश्वविश्वकैमित्रंयत्रास्ते तत्र दौःस्थ्यं किमिदमसुमतामाधितो व्याधितो वा। इत्युग्रं हन्तुमन्तश्चररिपुनिकरं पापपाथोधिसेतून् प्रत्यूहव्यूहकेतून् वहति यदनिशं स्कन्धबन्धेषु दण्डान् // 36 // चञ्चच्चन्द्रोदयाढ्यं सवृषमुनिगणं चारुचित्रं सकुम्भं भास्वत्ताराभिरामं समकरमिथुनं दीप्तसिंहं सकेतुम् / स्वर्वर्मोल्लासिताशं सगुरुकविबुधं मङ्गलोद्बोधहेतुः किं वा दृष्टान्तमुच्चैः सतुलमनुकरोत्यम्बरस्य श्रियं यत् // 37 // उन्मीलदृष्टितेजःशमितमनसिजं विष्टपारब्धसेवं देवं प्राप्योरगेन्द्रस्फुटमणिकिरणश्रेणिधौतोत्तमाङ्गम् / अम्बां बिभ्रत्कुमारव्यतिकरसुभगां सिंहपृष्ठाधिरूढां शोभां धत्ते हिमाद्रेर्यदिह शिखरभूकोटिलीढाम्बरस्य // 38 // धारानुकारिधवलाश्ममयूखपातैर्धारागृहं तदिदमित्यवधार्य यत्र / कौसुम्भचीनवसना: सुदृशोबहिःस्थाव्याख्याविलाससदनश्रियमापिबन्ति त्रातस्त्रातव्यमेतत्रिभुवनमपि ते किन्तु तीत्रैर्महोभि- . नित्यं संतप्यमाने झटिति मयि कृपां नाथ कर्तुं यतेथाः / एवं देवं प्रवक्तुं तरणिमणिमयीर्दीपयन् धूपपात्रीर्यस्याभ्यर्णेषु भानुभ्रमति वसुभरैः पूरयन् कोशदेशान् // 40 //