________________ ऊधस्यं जठर[स्थव ?]स्तु मिलनात् सर्वं भृशं कश्मलं सर्पिोरसजं तथाऽन्नमखिलं तत्कृर्णवाश्रितम् / अस्य स्ताददनार्थमैक्षवरसो निर्दोष इत्याशया श्रेयांसेन वितीर्णमेनमदधद् यः स श्रिये वः प्रभुः / // 93 // दीक्षाऽऽदायि मनोज्ञमुक्तिरमणीदूती व्यधायि स्फुरन्माहात्म्यं च तपो रसाय विभुना ज्येष्ठाय येनाऽऽब्दिकम् / तन्मेसो(?)भवतात् :प्रभोरिति धिया तत्कारणं ढौकितं श्रेयांसेन य ऐक्षवं रसमधात् तं दध्महे हृद्गृहे // 94 // प्राग्जातेः स्मरणाद्रसं सुमधुरं प्रापं(प्राप्य) प्रभुं प्रेक्ष्य यद् दातव्योऽद्य स एव तत् प्रथमतोऽमुष्मै मया स्वामिने / पौत्रेणेत्युपदीकृतं सुकृतिना श्रेयांसनाम्नैक्षवं यो जग्राह रसं रसाय भवतां शान्ताय सोऽस्तु प्रभुः // 95 // भर्ता यः सलिलं विना कृततपो वर्षोपवासात्मकं सा तज्जा तृडुपैति......ना नीरेण नाशं कथम् ? / तद्ध्वंसाय रसं ददामि मधुरं ध्यात्वेति दत्तं दधौ श्रेयांसेन रसं रसालजमसौ यः सोऽस्तु वः स्वस्तिकृत् // 96 // अन्यत्राऽनुपलब्धितो मधुरता चित्तस्य किं मोरटद्वाराऽऽधायि सुधेक्षुभिः क्षितितलात् स्वादुस्तदीयो रसः / श्रेयांसेन सुधेत्यढौकि विबुधाधीशाय यस्मै मुदा हस्ताभ्यां निपिबन् सतं(तां) वितनुतां श्रेयांसि भूयांसि वः।। 97 // ज्येष्ठो योऽस्ति रसो रसेषु मधुरो भत्रै कृतज्ञाय चे- . देतस्मै प्रवितीर्यतेऽयमपि मे दत्ते द्रुतं तं बहुम् / तद्बीजं रसमेनमैक्षवमिति श्रेयांसविश्राणितं यः स्वामी निजकानने निहितवान् सोऽर्हज् श्रियं रातु वः॥ 98 // 44