________________ . .. .. . . गच्छद्भिनिधनं द्रुमैर्दिविषदां माधुर्यमत्रैव किं स्वं न्यस्तं विदतेति दत्तमनघं माधुर्यवर्यं मुदा / इक्षोरेव रसं रसेश्वरभुवा श्रेयांससझेन यः पुण्यात्मा पिबति स्म पेशलपदः पुष्णातु वः स श्रियम् // 87 // लोकास्तोकमनोविनोदविदुषा कर्ता(ा)ऽस्मि कर्ता मुदा स्पर्धा सार्धमहं त्वदीयवचसा माधुर्यधुर्येण नो / तापात् पाहि तपस्विनं हुतभुजां तन्मां जिनेन्द्राऽधुना किं विज्ञप्त इतीक्षुजं रसमिमं योऽपात् स वः श्रेयसे // 88 // सम्पन्नः सुमना अयं ............. ........................ ..............ढौकितं श्रेयांसेन धियेति यस्तमपिबत् सम्पत्प्रदः सोऽस्तु वः // 89 // उसः स्याद् यदि पुण्यभाजि भगवत्क्षेत्रेऽत्र पूर्वं मया माधुर्यस्य खनी रसः फलमहं प्राप्तोऽस्मि तदबीजजम् / श्रेयांसेन धियेति यत्करभुवि न्यस्तो रसः पुण्ड्रभूः क्षेत्रान्तर्निदधे स एव तरसा येनेशिता स श्रिये // 90 // आसीदेष वलक्षपक्षयुगल: श्रीराजहंसो जिनो धत्ते गोरसतां रसोत्तमतयो(या) युक्तोऽयमिक्षो रसः / एतत्पानममुष्य साम्प्रतमिति ध्यात्वेति यं ढौकितं श्रेयांसेन पपौ प्रभुः प्रथितधीर्यः सोऽस्तु वः शर्मणे // 91 // पत्राणां प्रकरोऽस्ति तोरणकृते पुष्पं पिकप्रीतये सौरभ्यं प्रसन्नं मुदे मधुलिहां यस्या रसालावलेः / तेनाऽस्यैव रसः प्रकाममुचितस्तस्या रसालेशितुः श्रेयांसार्पितमित्यपात् तमखिलं यः श्रेयसे सोऽस्तु वः // 92 // . . .43