________________ देवेन्द्रैः कुमुदेन्दुसुन्दरतरैः सञ्चालितैश्चामरैः श्लिष्टा यच्छ्रुतिपार्श्वयोरधिगता जात्याञ्जनाभा जटाः / दैवात् सम्मिलितैर्जलैर्दिविषदां नद्या मिथः सङ्गताः ... कल्लोला इव यामुनाः शुशुभिरे सोऽर्ह शिवायाऽस्तु वः॥ 57 // स्पर्धी सार्धमहं त्वदङ्गमुखजैः कर्ताऽस्मि नो सौरभैस्तेनाऽकीर्तिकरी कुरङ्गजठरावस्थानजां वेदनाम् / स्वामिन् ! भिन्ध्यभिधातुमित्युपगता कस्तूरिकेव स्वयं यं स्कन्धशिरोजराजिमिषतस्तं तीर्थनाथं स्तुमः पास तायनाम्य स्तुमः // 58. // भुक्तायाश्चिरमृद्धराज्यकमलालोलेक्षणाया व्रतादानस्याऽवसरे सरागविनयादालिङ्ग्य यान्त्या इयम् / लेखा कज्जलपेशलाक्षिपयसां किं स्कन्धयोः सङ्गता श्रेणी यस्य शिरोरुहां श्रियमधात् पायादपायात् स वः // 59 // हा ! नैकाऽपि मया महोदयशिला पूर्णीकृतौजस्विना सप्तानामपि मध्यतश्च नरको नैकोऽपि रिक्तीकृतः / व्यज्ञायि स्वमकीर्तियुग्ममनिशं येनेति भाऽलकाः स्वस्कन्धोपरिगा द्विधा शितितमांस्तं दध्महे हृद्गृहे // 60 // घ्राणानन्धरविन्दकुन्दकुमुदीमोदश्रियां जित्वरं / घ्रातुं सौरभमास्यसम्भवमसौ किं स्मैत्यलीनां ततिः / कालिन्दीसलिलोमिवर्मितशद्ध्योमोपमो निःसमो यस्याउंसे शुशुभे लुठञ् शिरसिजस्तोमः स्तुमस्तं जिनम् // 61 // द्वे मोक्षस्य.....पद्धतिधुरे सार्धं द्वयोः स्कन्धयो- . र्यस्योव्यौं वहतस्तदेक पिशुने चिह्न इवोद्धर्षजे।। दोर्मूञ्जेः पतितौ पृथग् जलधरश्यामौ श्रियं बिभ्रतुचारू यच्चिकुरोच्चयौ चयमयं प्रीणातु पुण्यात्मनाम् // 62 // 30