________________ आसीदग्निवृषो धृतामृतरुचिः साक्षादसावीश्वर- स्तेनोमा च सरस्वती च मरुतामस्यैव युक्ते प्रिये / सञ्चिन्त्येति विरञ्चिनोभयवधूव्याजात् तयोर्दत्तयोः पाणि पीडयति स्म योऽस्तु पुरुषापीड: स पीडापहः . // 45 // एकां मां रमणीमनन्यगतिकामन्यां च सिन्धोः सुतां दत्ते नाभिनराधिपेन गुरुणा बाल्येऽपि भुञ्जन् प्रभुः / / स्पर्धामाश्रितया सहात्मपतिना यः पर्यणैषीत् स्त्रियौ द्वे मात्राऽपि समर्पिते इव युवा वः पातुः सोऽर्हद्गुरुः // 46 // यं चेन्दुं च विचिन्त्य चेतसि चिरं जैवातृकत्वात् समौ .. ब्राम्यौ तत्कृतये विधिविहितवान् कन्ये उभे सन्निभे / एकं वीक्ष्य वलक्ष[पक्ष]युगलं शुक्लैकपक्षं परं . तद्दत्तामुदुवाह यस्तदुभयीमप्येककः स श्रिये // 47 // सूर्यं वीक्ष्य रजस्वलामपि सदा भुञ्जानमम्भोजिनीनित्यैकाम्बरचारिणं च दयितं दुःखै शं व्याकुलाम् / छायां गां च समागतामिनतया ख्यातस्त्रिलोकीपतिः स्त्रीरूपां परिणीतवान् सपदि यस्तं संमुगः(संस्तुमः) स्वामिनम् 48 मत्वा मामृषसं(भं) मदर्थमकरोद् गां स्पष्टमष्टश्रवा मां चेन्द्रं जयवाहिनीं जयकरीमेते च मामाश्रिते / नो लोकेशनिदेशलोप उचितश्चित्ते विचिन्त्येति यश्चक्रे द्रागुभयोस्तयोरुपयमं स्त्रीरूपयोः सोऽवतात् // 49 // अस्त्यव्यस्तधनो महाव्रतिसुहृद् भर्तेष मद्देवरो मत्सख्योरमुना समं परिणये स्यात् तद्वियोगो न मे। मत्वैवं शिवया वशाद्वयमिषाद् द्वे एव ते ढौकिते . यः स्वामी परिणीतवाञ् शिवसखः श्रेय:श्रिये सोऽस्तु वः 50 35