________________ आद्यस्तीर्थकृतां तथा क्षितिभृतां भावी समेषामयं विश्वेऽस्मिन्निति तच्छियोः प्रतिभुवौ मत्वेव कन्ये उभे / यः पूज्यैः परिणायितः किल रति-प्रीती इव श्रीसुतः श्रीमानाभिसुतः प्रयच्छतु स वः पद्मामुदन्वानिव स्यात् पित्रोर्युगपत् पवित्रपदयो पुण्यपुण्यात्मनोः कर्तुं भक्तिमलं विलम्बरहितां नैका स्नुषा जातुचित् / ध्यात्वैवं परिणीतवान् विनयवांस्तत्कर्ममर्मक्षमे यो द्वे पद्मविलोचने अवतु वस्तापादिवेन्दुर्भवात् // 40 // द्वे गङ्गागिरिजे प्रिये पशुपतेश्छायाछवी भास्वतः श्रीगोप्यौ च तमोरिपोरपि रति-प्रीती च चेतोभुवः / यो द्वैवं(धं?) मरुतां मतः समुचितस्तद्वर्तिनः मेऽपि स ध्यात्वैवं परिणीतवान् प्रभुरुभे यः मुत्तुवो(सुभ्रवौ) स श्रिये 41 एकामेव हि युग्मजातमनुजास्तन्वन्ति तन्वी ध्रुवं .. पूर्वेषां प्रथमः क्रमः क्रमजुषोऽप्येष ध्रुवं मूलतः / उच्छेद्योऽस्ति ममेति योऽत्र तदभिज्ञानाय सद्ज्ञानवान् कान्ते द्वे परिणीतवान् स कुरुतां कैवल्यकेली(लि) सताम् 42 नाऽऽप्ताः पङ्क्तिविभेदिनः स्युरिति यो भोगार्थमभ्यर्थितः / स्वःस्त्रीभिर्वसुधाभृतां युवतिभिश्चाऽनेकशो वाग्भरैः / कामोर्वीरुहवारिवाहसदृशो द्वे सुभ्रवी वू(व्यू)ढवांस्तासां तुष्टिकृते पृथक् पृथगसौ स्वामी श्रिये वः सदा // 43 // लोकेशत्वगभीरताजितसरोजन्मासनाम्भोनिधिक्ष्मापाभ्यां स्वसुते उपायनकृते साक्षादिव प्रेषिते / यो दोर्दण्डमखण्डचण्डमहसं बिभ्रद् भ[ ]भासुरः कन्ये द्वे परिणीतवान् प्रथयतु श्रेयांसि भूयांसि सः // 44 //