________________ छायाकान्तिपतिः पितेव यमुनाभ्रातुर्निशाकौमुदीयुक्तश्चन्द्र इवाऽतिसुन्दररसाधीशप्रमोदप्रदः / . स्मेराक्षीयुगलेन मञ्जुलमभात् पाणौ गृहीतेन यस्तं नि:शेषविशेषविद्वरगवीगेयं स्तुवेऽहं जिनम् // 33 // सर्वज्ञं नरकच्छिदं च हृदये विज्ञाय वामाद्वयव्याजाद् विश्वविलोचनालिनलिनी ह्लादैकहेलिच्छवी / सोल्लासं श्रयतः स्म शैलतनया पाथोधिपुत्री च यं पुण्यः पुण्यपथप्रकाशनपटुर्भूयात् सव: प्रीतये . // 34 // ऐश्वर्यं वृषभध्वजत्वमननघं(मनघं) यस्मिन्नवेक्ष्य प्रभौ . नष्टे स्वामिनि चित्तजन्मनि रति-प्रीती तदेणीक्षणे / नित्यं निर्गतिके इव प्रणयिनं यं चक्रतुः स्त्रीद्वयव्याजाद् विश्ववनप्रसूनसमयः पुष्णातु पुण्यं स वः // 35 // स्नेहाढ्ये सुदृशे अनश्वरमहे सत्पात्रिके दीपिके जाते ये सुदृशौ विधेर्विदधतो विश्वातिते(गे) एव यः / / गृह्णाति स्म करेण दर्शनधिया सत्कर्मधर्माध्वनोः श्रीमन्तः प्रथयन्तु पुण्यपटवः पादास्तदीयाः शिवम् // 36 // दस्राभ्यां भुवनातिशायिगुणया रूपश्रिया सान्द्रया ध्वस्ताभ्यामुपढौकिते उपदया [तत्]स्वस्वसाराविव / यो जग्राह करेण तत्प्रतिनिधी कन्ये उभे निर्निभे नम्रानेकनरेन्द्रवन्दितपदं वन्दामहे तं जिनम् // 37 // ऊर्ध्वाध:ककुभोः प्रतापपटलैराकान्तयोर्भीततद्- . भर्तृभ्यामुपढौकिते इव निज(जा)स्थानश्रियां मण्डने / के[लि?]प्राभृतके प्रभुः प्रणयवान् पाणौ गृहीते उभे यश्चक्रे सुचिरं चिनोतु रुचिरां चारित्रचर्यां सं वः // 38 // 34