________________ पावित्र्येण कटिश्रिया विभुतया वर्यार्जवेणो(णा)ऽपि यज्जिग्येऽहं विभुनाऽमुनाऽतिबलिना मत्वेति चिह्नच्छलात् / यं गौगौरव(गौौरव)वानन्यगतिक: शिश्राय विश्वाधिपं दध्मः पद्ममिवाऽलिनः प्रणयिनस्तं तीर्थनाथं हृदि // 3 // अस्मिन् गर्भमुपेयुषि प्रथमतो दृष्टोऽहमस्याऽम्बया लक्ष्मीमेष मयैव विश्वविदितां धत्ते व(च) धन्योद्धरः / अङ्केऽप्येष बिभर्ति शस्तकमले मामेव देवोत्तमः सेवा मेऽस्य घटेत यं वृष इति ध्यात्वाऽऽश्रितस्तं स्तुवे // 4 // कुर्वत्या चरणं लसच्चरणया हृद्गोचरे धीमतां निन्ये पुष्टिमहं महस्विरसया गाढं गवास्यप्रभोः / तेनाऽमुष्य निषेवणादहमदो भावी कृतज्ञाग्रणी Oत्वेत्थं भजति स्म लाञ्छनमिषाद् यं गौः स्तुमस्तं जिनम् // 5 // शश्वत्संश्रितसर्वमङ्गलमभूद् गात्रं च शक्ति शुभा मन्युध्वंसविधायिनीय नितमा भालं दलाब्जाद्धृतम् / ऐश्वर्यं गुरु यस्य विश्वविदितं तस्यैव पादाब्जयोः स्थाने मत्स्थितिरित्यकाममभजद् यं गौः स वः श्रेयसे // 6 // अस्मादस्मयचित्तवृत्तिसुभगात् सञ्जानया यद्गवा यच्छन्त्या रसमुज्ज्वलं प्रज्जनितः प्रौढप्रभावानहम् / किं तत् सूत्रितसर्वसम्मदमहं मुञ्चामि मातामहं यस्याऽङ्कं न जहौ वृषः सुखसखं मत्वेति सोऽस्तु श्रिये // 7 // ग्रामान्तवि(नि)वसन्तमत्र मनुजास्तन्वन्ति सांवाहिनं त्र(त्रा)सं .यच्छति सिंहिकातनुरुहो नान्ते वनान्तेऽपि मे / त्रासाद् मद्गतिरेष एव भगवान् भर्ताऽयमाद्यश्च मे मत्वेत्यङ्कमिषाद्. यमीशमभजद् गौौरवायाऽस्तु सः // 8 //