________________ विस्फूर्जनीतिधारानिकरपतनतः प्रावृषा या समाना मानारेनिनामाप्यपनुदतु भवत्स्वाशु सा सूनृता वाक् // 98 / / लक्ष्मीर्वा दुग्धसिन्धोर्धरणिधरवराज्जझुकन्येव मान्या श्यामेशाच्चन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः। ध्वान्ताबन्धोरह:श्रीरिव समुदभवद्भारती रत्यधीन्द्रं. द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः // 99 // नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह बिभ्रत्कण्ठे निर्लोठ्य शाठ्यं कुदृशमसदृशोद्भासितां भ्रंशयन्तीम् / यां रक्षां वा विवेकी बहुविधविपदां भेदिकां दैन्यशून्यान् .. युष्मान्मान्याग्रगस्याननवनजशया वागसौ द्राग्विधेयात् // 100 // इति जिनवाग्वर्णनं पं. हेमविजयगणिविरचितम् // ऋषभशतकम् // ऋषभलाञ्छनवर्णनो नाम प्रथमः स्तवः स्वस्ति श्रीमति यत्र मित्रमहसि प्राप्ते दृशोरध्वनि, स्निग्धाब्जैररिकैरवैश्च युगपल्लेभे प्रमोदोद्गमः / तं विश्वत्रयचित्तचातकचयप्रह्लादने तोयदं श्रीमन्नाभिनराधिराजतनयं कुर्मो मनोवर्त्मनि पात्रं पुष्टिपटुः पथ: पथयिता प्राधान्यहेतुः प्रभुविश्वेऽस्मिन्नयमेव देवतिलको जज्ञे ममाऽहर्निशम् / / यं भेजेऽङ्कमिषाद् वृषः शुभगतिर्मत्वेति सलक्षणं . ध्यायामस्तमशेषदोषविमुखं नित्यं जिनाधीश्वरम् / // 1 // // 2 // 28